________________ अलंकारसर्वस्वम् / यद्वा मृषा तिष्ठतु दैन्यमेतन्नेच्छन्ति वैरं मरुता किराताः / केलिप्रसङ्गे शबराङ्गनानां स हि स्मरग्लानिमपाकरोति // ' इति नाक्षेपबुद्धिः कार्या / विहितनिषेधो ह्ययम् / न चासावाक्षेपः / निषेधविधौ तस्य भावादित्युक्तत्वात् / चमत्कारोऽप्यत्र निषेधहेतुक एवेति न तद्भावमात्रेणाक्षेपबुद्धिः कार्या / अयं चाक्षेपो ध्वन्यमानोऽपि भवति / यथा 'गणिकासु विधेयो न विश्वासो वल्लभ त्वया / किं किं न कुर्वतेनर्थमिमा धनपरायणाः // ' अत्र हि गणिकाया उक्तौ तदोषोक्तिप्रस्तावे नाहं गणिकेति प्रतीयते / न चासौ निषेध एव / गणिकात्वेनावस्थिततयैव गणिकात्वस्य निषेधनात् / सोऽयं प्रस्खलद्रूपो निषेधाभासरूपो वक्त्र्या गणिकायाः शुद्धस्नेहनिबन्धनत्वेन धनविमुखत्वादौ विशेषे पर्यवस्थतीत्युक्तविषय आक्षेपध्वनिरयम् / न तु ‘स वक्तुमखिलाशक्तो हयग्रीवाश्रितान्गुणान् / योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः // ' तस्येत्याक्षेपस्य / तद्भावमात्रेणेति / केवलेनैव चमत्कारसद्भावेनेत्यर्थः / प्रतीयत इति गम्यते / नाहं गणिकेति निषेधस्य शब्दानुपात्तत्वाद्विशेषमात्रस्य गम्यत्वे आक्षेपालंकारो वाच्य एव / निषेधाभासस्यापि गम्यत्वे ध्वन्य इत्यनेन दर्शितम् / अन्यथा ह्यस्य ध्वन्यमानोदाहरणत्वमयुक्तं स्यात् / तस्येहानुपक्रान्तत्वात् / इत्थं च निषेधाभासस्यैव गम्यत्वेऽयं ध्वन्यमानो भवति न निषेधमात्रस्यैवेति दर्शयितुमाह-नत्वित्यादि / अतश्च ध्वनिकृता यदेतदानेपध्वनावुदाहृतं तदयुक्तमेवेति भावः / एवं चास्य यथोपपादितं खरूपमुपसंहार 1. योऽम्भःकणैः' ख. 2. 'भावस्यैव' क, 3. 'आक्षेपादावुदाहृतं' क.