________________ 152 , काव्यमाला / इत्याक्षेपध्वनावुदाहार्यम् / निषेधस्यैवात्र गम्यमानत्वात् / न निषेधाभासस्य / गुणानां वक्तुमशक्यत्व एवात्र तात्पर्यम् / तन्निमित्तक एवात्र चमत्कारो न निषेधाभासहेतुक इति नाक्षेपध्वनिधीरत्र कार्या / सर्वश्रेष्टनिषेधाभासस्य विध्युन्मुखस्याक्षेपत्वमिति स्थितम् / एवमिष्टनिषेधेनाक्षेपमुक्त्वा समानन्यायत्वादनिष्टविधिनाक्षेपमाहअनिष्टविध्याभासश्च / यथेष्टस्येष्टत्वादेव निषेधोऽनुपपन्न एवमनिष्टस्याप्यनिष्टत्वादेव विधानं नोपपद्यते / तक्रियमाणं प्रस्खलद्रूपत्वान्निषेधे पर्यवस्यति / ततश्च विधेरुपकरणीभूतो निषेध इति विधिनायं निषेधोऽनिष्टविशेषपर्यवसायी निषेधागूरणादाक्षेपः / यथा भङ्ग्यापि प्रतिपादयति-सर्वथेत्यादिना / सर्वथेत्यनेन कुत्राप्यस्य व्यभिचारो नास्तीति दर्शितम् / एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना / समानन्यायत्वादिति / यथाढेष्टस्य निषेधो बाधितत्वाद्विधौ पर्यवस्यति तथैवेहाप्यनिष्टस्य विधिनिषेधे इत्येवंरूपात् / एवमेतावन्मात्रमस्याद्यस्य चाक्षेपस्य साजात्यम् , न पुनः सामान्यलक्षणसंभव इति भावः / तदेवाह-अनिष्टेत्यादि / एतदेव दृष्टान्तद्वारकं व्याचष्टे यथेत्यादिना / तदिति विधानम् / प्रस्खलद्रूपत्वादिति खार्थबाधात् / पर्यवस्यतीति / खात्मसमर्पणेन निषेधं लक्षयतीत्यर्थः / ततश्चेति विधेर्निषेधलक्षणात् / उपकरणीभूत इति / स्वार्थबाधादुपसर्जनीभूत इत्यर्थः / अनिष्टविशेषेत्यनेन प्रयोजनमत्रोक्तम् / अन्यथा हि गजनानतुल्यत्वं स्यात् / निषेधागूरणादिति निषेधस्यात्र लक्ष्यमाणत्वात् / सर्वत्रैव हि लक्षणायां लाक्षणिकेनैव लक्ष्योऽर्थ आगूर्यते / तस्मात्तत्प्रतिपत्तेः / तच्चान्तरागरणं 'खसिद्धये पराक्षेपः' इत्येवं लक्षणाप्रकारस्य पूर्वं निरस्तत्वात्खात्मसमर्पणेनैव भवतीति यथोक्तमेव युक्तम् / अत एवास्यान्वाभिधत्वम् / पर्यनुयोगवशादागूरणमपि ह्याक्षेपशब्दस्यार्थः / व्याजस्तुत्यादौ तु व्याजेन स्तुतेर्विवक्षितत्वात्तत्र तत्त्वमेव 1. सद्भाव' इत्यर्थः.