________________ अलंकारसर्वस्वम् / 149 विहितनिषेधः / किं तु निषेधेन विधेराक्षेपः / निषेधस्यासत्यत्वाद्विधिपर्यवसानात् / विधिना तु निषेधोऽस्य भेदत्वेन वक्ष्यते / तथा च हर्षचरिते-'अनुरूपो देव्या इत्यात्मसंभावना-' इत्यादौ, तथा 'यामीति न स्नेहसदृशं-' इत्यादावुक्तविषय आक्षेपः / 'केवलं बाल इति सुतरामपरित्याज्योऽस्मि / रक्षणीय इति भवद्भुजपञ्जरमेव रक्षास्थानम्' इत्यादावाक्षेपबुद्धिर्न कार्या / बालत्वादेरुक्तस्य निषेध्यत्वेना संनिधावेव भवति / विहितनिषेधस्तु यथा-'ब्रह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं ब्रूमहे हे सन्तः शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः / यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं माद्यन्ति स्वयमेव तत्सुमनसो यात्रा परं दैन्यभूः // ' अत्र विहितानां विनयोक्तीनां निषेध इति विहितनिषेधः / पूर्ववच्चात्र नाक्षेपालंकारः / निषेधेन विधिस्तु ग्रन्थकृतैवोदाहृतः। अत्र च निषेधः स्वयमनुपपद्यमानत्वादविश्राम्यन्वात्मानं विध्यर्थे समर्पयतीति 'परार्थं स्वसमर्पणम्' इत्येवंरूपलक्षणामूलत्वमस्य सिद्धम् / यदुक्तमन्यत्र-'यत्र स्वयमविश्रान्तेः परार्थं स्वसमर्पणम् / कुरुतेऽसौ स आक्षेपो निषेधस्यैव भासनात् // ' इति / निषेध. विधौ विहितनिषेधे च पुनरभिधेयः / न पुनः खसिद्धये पराक्षेप इत्येवं लक्षणामूलत्वमत्र वाच्यम् / मुख्यार्थस्यैव विश्रान्तेर्मुख्यार्थबाधाद्यभावात् / अतश्चान्यैः 'खसिद्धये पराक्षेपः प्रतिषेधस्य यत्र हि / आक्षेपस्तत्र नैवेष्टः प्रतिषेधस्य भासनात् // ' इत्याद्ययुक्तमेवोक्तम् / यद्यपि लक्षणायां खसिद्धये पराक्षेपस्य प्रागभाव एव प्रागुक्तस्तथाप्येतत्पक्षाश्रयेऽपि प्राच्यानामपर्यालोचिताभिधानमित्येवंपरमेतदु. कम् / ननु च यद्येवं निषेधंस्यासत्यत्वाद्विधिपर्यवसाने आक्षेप उक्तस्तद्वदेव विधेनिषेधपर्यवसाने को नामालंकार इत्याशङ्याह-विधिनेत्यादिना / अस्येत्याक्षेपस्य / शब्दसाम्यनिबन्धनं सामान्यभावमाश्रित्य चात्र प्रकारप्रकारिभावः कल्पितो न तु वास्तवः / विधिनिषेधयोनिषेधविध्यागूरकत्वादनयोः सामान्यलक्षणायोगात् / ततश्चेति निषेधस्य विधिपर्यवसानात् / अस्य चालंकारान्तराश्रयाद्वैलक्षण्यं दर्शयति-केवलमित्यादिना / अत्र राज्यवर्धनोक्तौ बालत्वादेरु.