________________ अलंकारसर्वस्वम् / 'बालअ णाहं दूई तीए पिओ सि ति गम्हवावारो। सा मरइ तुज्झ अयसो एअं धम्मक्खरं भणिमो // ' 'प्रसीदेति ब्रूयामिदमसति कोपे न घटते करिष्याम्येवं नो पुनरिति भवेदभ्युपगमः / न मे दोषोऽस्तीति त्वमिदमपि हि ज्ञास्यसि मृषा किमेतस्मिन्वक्तुं क्षममिति न वेद्मि प्रियतमे // ' 'सुहअ विलंबसु थोअंजाव इमं विरहकाअरं हिअअं। संठविऊण भणिसं अहवा वोलेसु किं भणिमो / ' 'ज्योत्स्ना तमः पिकवचः क्रकचस्तुषारः क्षारो मृणालवलयानि कृतान्तदन्ताः / सर्व दुरन्तमिदमद्य शिरीषमृद्वी . . सा नुनमाः किमथवा हतजल्पितेन // आये उदाहरणद्वये यथाक्रमं वस्तुनिषेधेन भणितिनिषेधेन चोक्तविषय आक्षेपः / तत्र चोक्तस्य दूतीत्वस्य वस्तुनो निषेधमुखेनैव वा. मुखेन विशेष इत्यनेन यस्यैव निषेधस्तस्यैव विशेष इत्युक्तं निहितम् / 'दूरपवासे समुहो सि सुहअ आलिंगणं खणं कुरुसु / अहवा अला हि इमिणा गमणम्मि विलंबआरेण // ' इत्यत्र पुनरुक्तस्यालिङ्गनस्य निषेधो विधौ तात्पर्याभावान्न निषेधाभासतामियादित्येतदुदाहरणं न वाच्यम् / यतोऽत्र विलम्बनकारिण आलिङ्गनस्यैव निषेधेन गमनविधिरुद्रेचितः / स च विधिरनुपपद्यमानत्वादप्रस्थानलक्षणं निषेधं लक्षयति / अत्र च गमनस्यावश्यापरिहार्यत्वादिर्विशेषः प्रयोजनम् / . 1. 'बालक नाहं दूती तस्याः प्रियोऽसीति नास्मद् व्यापारः / सा म्रियते तवायश एतद् धर्माक्षरं भणामः // ' इति च्छाया. 2. 'सुभग विलम्बस्व स्तोकं यावदिदं विरहकातरं हृदयम् / संस्थाप्य भणिष्याम्यथवापनाम किं भणामः // ' इति च्छाया. 3. 'वास्तवाभिन्नादिविशेषतया भण्यमानस्य' ख. 4. विधितात्पर्या' क.