________________ 146 काव्यमाला। नस्त्वन्यस्य सामान्यरूपस्य निषेधः / तेनात्र लक्षणभेदः / विशेषस्य चात्र शब्दानुपात्तत्वाद्गम्यत्वम् / तत्रोक्तविषय आक्षेपे क्वचिद्वस्तु निषिध्यते कचिद्वस्तुकथनमिति द्वौ भेदौ / वक्ष्यमाणविषये तु वस्तुकथनमेव निषिध्यते / तच्च सामान्यप्रतिज्ञायां केचिद्विशेषनिष्ठत्वेन निषिध्यते कचित्पुनरंशोक्तावंशान्तरगतत्वेनेत्यत्रापि द्वौ भेदौ / तदेवमस्य चत्वारो भेदाः / शब्दसाम्यनिबन्धनं सामान्यविशेषभावमवलम्ब्य चात्र प्रकारिप्रकारभावप्रकल्पनम् / क्रमेण यथा परत्रावश्यमेव पर्यवस्यतीति कथमत्र निषेधविशेषयोभिन्नविषयत्वमुक्तम् / सत्यम् / यद्यप्येवं तथाप्येतन्न शब्दार्थम् / अर्थवशेन तत्र तथात्वावगतः / इह च शाब्दमेवैतदाक्षेपाझं नार्थवशायातम् / तथात्वे हि रूपकादीनामप्युपमात्वं स्यात् / तेषामप्यार्थस्य सादृश्यस्याभावात् / एतच्चोद्भटविचारे राजानकतिलकेनैव सप्रपञ्चमुक्तमिति न तथास्माभिराविष्कृतम् / तेनेति / निषेधविशेषयोरेव भिन्नविषयत्वादाक्षेपशब्दस्यार्थे भेदात् / यस्त्वत्र विशेषः स किं वाच्यः किमुत गम्य इत्याशङ्याह-विशेषस्येत्यादि / कथनमेवेति / न पुनः साक्षाद्वस्तु / तदिति कथनम् / सामान्यप्रतिशयेति / सामान्यमेवाश्रित्येत्यर्थः / विशेषनिष्ठत्वेनेति / सामान्यस्य विशेषाविनाभावित्वात् निषिध्यत इत्यत्रोत्तरत्र च संबन्धनीयम् / अंशान्तरगतत्वेनेति / सामान्यप्रतिज्ञयेत्यत्रापि संबन्धः / अत्रापि ह्यपरांशोक्तिः सामान्यमुखेनैव निषिध्यते। विशेषस्य हि साक्षादत्र निषेधो न भवति / निषेधानन्तरं तत्प्रतीते विनो निषेधासंभवात् / नयुक्तो निषेधः शब्दा. समर्पिते तत्कालमप्रतीयमाने च विषये संभवति / अस्येत्याक्षेपस्य / ननु द्वयोराक्षेपयोश्चत्वारो भेदाः संभवन्तीति कथमेकस्यैवोक्ता इत्याशझ्याह-शब्देत्यादि / प्रकल्पनमिति / न पुनर्वस्तुतः सद्भाव इत्यर्थः / वस्तुनो निषेध 1. 'ततश्च' ख. 2. 'क्वापि' क. 3. 'प्रकारप्रकारिकभावपरिकल्पनम्' ख. 4. 'सदर्थम् क. 5. 'नाक्षेपशब्दस्यार्थभेदात्' क. 6. 'शब्दसमर्पिते तत्कालप्रतीयमाने च' क.