________________ अलंकारसर्वस्वम् / 145 विधानार्हस्य निषेधः कर्तुं न युज्यते / स कृतोऽपि बाधितखरूपत्वान्निषेधायत इति निषेधाभासः संपन्नः / तस्यैतस्य करणं प्रकृतगतत्वेन विशेषप्रतिपत्त्यर्थम् / अन्यथा गजनानतुल्यं स्यात् / स चाभासमानोऽपि निषेधस्तत्रोक्तस्य वा स्यात् आसूत्रिताभिधानत्वेन वक्ष्यमाणस्य वा स्यात् / इत्याक्षेपस्य द्वयी गतिः। तत्रोक्तविषयत्वे न कैमर्थक्यपरमालोचनमाक्षेपः / वक्ष्यमाणविषयत्वेनानयनरूपमागूरणमाक्षेपः। एवं चार्थभेदादाक्षेपशब्दस्य द्वावाक्षेपाविति वदन्ति / तत्रोक्तविषये यस्यैवेष्टस्य विशेषस्तस्यैवाक्षेपः / वक्ष्यमाणविषये त्विष्टस्य विशेषः / इष्टसंबन्धि विधस्येति वक्तुमिष्टस्य / अत एव विधानार्हस्येत्युक्तम् / स इति निषेधः। बाधितस्वरूपत्वादिति / प्राकरणिके विधानाहे तस्यासंभवात् / यद्येवं तबसावकार्य एवेत्याशङ्ख्याह-तस्येत्यादि / अन्यथेति / विशेषप्रतिपत्तिर्न स्यात् / तस्य च विषयं दर्शयति-स चेत्यादिना / उक्तस्येति वस्तुतः कथनरूपस्य / आसूत्रिताभिधत्वेनेति सामान्यमुखेनांशोक्तिमुखेन वा / अन्यथा हि सर्वत्र विवक्षितार्थस्य निषेधमात्रादेव प्रतीतिप्रसङ्गः / कैमर्थक्येति / किमर्थमेतदिति पर्यनुयोगरूप इत्यर्थः / एवमिति / कैमर्थक्यपर्यालोचनानयनरूपागूरणरूपत्वात् / वदन्तीति प्राच्याः / यदाह भामहः-'वक्ष्यमाणोक्तविषयस्तत्राक्षेपो द्विधामतः। एकरूपतया शेषा निर्दिश्यन्ते यथाक्रमम् // ' इति / तेनास्माकमेतन्न मतमिति भावः / वक्ष्यमाणविषये हि कथनस्यैव निषेध्यत्वात्किमर्थमेतत्कथ्यत इति कैमर्थक्यपरमालोचनमेव प्रतीयते इत्येक एवाक्षेपशब्दस्यार्थ इति भेदाभावाद्वावाक्षेपाविति न युक्तम् / तत्किमेक एवाक्षेपो भवन्मते युक्त इत्याशझ्याह-तत्रेत्यादि / आक्षेप इति विशेषः। कार्यकारणयोरभेदोपचारात् / इष्टस्येति विशेषात्मनः / अन्यस्येति विशेषात् / एवं निषेधविशेषयोर्भेदेनावस्थिते त्र सामान्यलक्षणसंभवोऽस्तीति तात्पर्यम् / ननु सर्वविशेषाणां सामान्यानुप्राणितत्वादेकत्रापि कृतो निषेधादिर 1. 'तुल्यत्वं' क. 2. 'तत्र' क-पुस्तके नास्ति. 3. 'भिधत्वेन' क. 4. 'तत्र' क-पुस्तके नास्ति. 5. 'शब्दस्यार्थ इति तस्यार्थभेदाभावात्' का 6. 'ननु सामान्ये सर्वविशेषाणां विशेषे च सामान्यानामनुप्राणितत्वात्' ख. 10 अ० स०