________________ 144 : काव्यमाला। . अत्र धवलताहेतुयशोविषयानवक्तृप्तिप्रतिपादनेन 'विशेषपतिथे शेषाभ्यनुज्ञानम्' इति न्यायाकतिपयपदार्थवर्ज समस्तबस्तुधवलताकारित्वं नृपयशसः प्रतीयते। - किं वृत्तान्तैः परगृहगतैः किं तु नाहं समर्थ __ स्तूष्णीं स्थातुं प्रकृतिमुखरो दाक्षिणात्यखभावः / गेहे गेहे विपणिषु तथा चत्वरे पानगोष्ठया मुन्मत्तेव भ्रमति भवतो वल्लभा हन्त कीर्तिः // इत्यत्र प्रक्रान्तापि स्तुतिपर्यवसायिनी निन्दा हन्त कीर्तिरिति भणित्या उन्मूलितेति न प्ररोहं गमितेति श्लिष्टमेतदुदाहरणम् / गम्यत्वमेव प्रकृतं विशेषविषयत्वेनोररीकृत्याक्षेपालंकार उच्यते उक्तवक्ष्यमाणयोः प्राकरणिकयोर्विशेषप्रतिपत्त्यर्थ निषेधाभास आक्षेपः। इह प्राकरणिकोऽर्थः प्राकरणिकत्वादेव वक्तुमिष्यते तथाविधस्य तात्र वाच्यवैपरीत्यप्रतीतिरिति भावः / अन्यथा हि सर्वस्मात्सर्वप्रतिपत्तिः स्यात् / लक्षणा च मुख्यार्थबाधपूर्विकैव भवतीत्यभिधीयमानायाः स्तुतेर्बाधितस्वरूपत्वमुक्तम् / अस्याश्च निन्दास्तुत्योर्वाच्यत्वे स्तुतिनिन्दयोर्यदा गम्यत्वमेव भवति तदैवालंकारत्वं नान्यदेति दर्शयितुमाह-किं वृत्तान्तरित्यादि / उन्मूलितेति / स्तुतिरेव वाच्यत्वेनोकेत्यर्थः / श्लिष्टमिति / अनुदाहरणमेवैतदिति तात्पर्यम् / अतश्चास्य लोचनकारेण यझ्याजस्तुत्युदाहरणत्वमुक्तं तदयुक्तमेवेति भावः / उररीकृत्येत्याश्रित्य / तमेवाह-उक्तवक्ष्यमाणयोरित्यादि / तथा: 1. 'लिप्त' ख. 2. 'इत्युच्यते' ख. 3. 'पूर्वमात्' ख. 4. 'नान्वयेति' . 5 'वाक्यार्थत्वेन' क.