________________ मान्तरवदस्थापि- 'कर्णिकारमङ्ख' इति नामान्तरं प्रसिद्धि प्रापदित्यस्य श्रीकण्ठचरितकाव्यस्य व्याख्यात्रा द्वितीयराजतरङ्गिणीकारेण राजानकजोनराजेन (1917-1467 खि.) 'विवृण्वता सौरभरोरदोषं _बन्दिव्रतं वर्णगुणैः स्पृशन्त्या / विकस्वरे कस्य न कर्णिकारे घ्राणेन दृष्टेर्ववृधे विकारः // ' (श्रीकण्ठच. 6 / 13) इति श्लोकव्याख्याने स्पष्टीकृतम् / अस्य ज्यायान् सहोदरोऽलङ्कारापरनामा लङ्ककश्च जयसिंहराज्ञः सामन्तो विख्यातगुणगौरवश्वासीदित्यस्यैव काव्यस्य पञ्चविंशसर्गादवगम्यते / तथाहि 'यः सामन्तशिखामणेऽत्र भवतालङ्कारनित्यं सता मानीतोऽनवकाशतां हृदि हृताशेषाद्भुतापद्भियि / तेषां श्रोत्रविलिद्यमानगहनत्वत्सूक्तिचर्वोत्सवै राशीभूत इवाधिशीर्षमधुना कम्पः स संपद्यते // एकं श्रीजयसिंहपार्थिवपतिं काश्मीरमीनध्वज तस्योपासितसन्धिविग्रहमलङ्कारं द्वितीयं स्तुमः / भूभारः प्रथमेन पन्नगपतेः क्ष्मां रक्षता वारितो नीतोऽन्येन कृतार्थतां प्रवचनैर्भाष्योपदेशश्रमः॥' इति. (श्रीकण्ठच. 25/40,61) अत्र प्रथमः श्लोको लोष्टकस्येति जोनराजः। आरोहक-भगदत्तस्य सूक्तिमुक्तावलीसंग्रहे श्लोकान्तरमपि लोष्टकस्य लभ्यते / तेन स एवायं भवेत् / द्वितीयस्तु भागवताचार्यदेवधरस्य / लङ्ककस्यालङ्कारेति नाम राजतरङ्गिण्यामपि दृश्यते / तथाहि 'अलङ्काराभिधो बाह्यराजस्थानाधिकारभाक् / अष्यो मानुषैर्युद्धे विरुद्धान् बहुधावधीत् // ' (राजत. 8 / 26, 58) . इयता मङ्क्षवृत्तमनायासेन बोढुं शक्यम् / अस्य श्रीकण्ठचरितमनेकार्थकोशश्चेति कृतिद्वयमेंवाद्यावधि ज्ञातम् // अथात्र सर्वस्वे स्मृतानां केषांचनालङ्कारनिबन्धकाराणां प्रसङ्गतः समयः प्रस्तूयते