________________ भट्टनायक। अपमानन्दवर्धनाचार्या (855-484 खि.) दुत्तरत्रैरस्मिन् लोचतकारादाचार्याभिनवगुप्तपादात् (993-1015 खि.) पूर्वस्मिन्नासीदिति तत्तत्रिबन्धनिर्देशतो ज्ञायते। सोऽयं प्राचामलङ्कारगोष्ठीषु लब्धप्रसरो हृदयदर्पणाख्यं ग्रन्थं निर्मितवान् / तच्च ध्वनिप्रतिभटभूतमिति प्रामाणिकाः / यतोऽस्य मतखण्डना ध्वन्यालोकलोचने 'एवं यद्भट्टनायकेन द्विवचनं दूषितं तद्गजनिमीलिकयैवे'त्यादिना क्रियमाणा जागर्येव / काव्यप्रकाशस्य चतुर्थोल्लासे मम्मटाचारपि रसस्वरूपं परामृशता सम्यगयमालोच्य प्रत्युक्तः। एवं व्यक्तिविवेककारोऽप्येनं संस्मरन्-. 'सहसा यशोऽभिसर्तुं समुद्यतादृष्टदर्पणा मम धीः / स्वालङ्कारविकल्पप्रकल्पने वेत्तिकथमिवावद्यम् // ' इत्यभिधत्तेस्म / एतेनास्यग्रन्थो ध्वनिविरोधपर एवासीदिति प्रतिभाति / केचित्तु भरतमुनेर्नाट्यशास्त्रस्य व्याख्यानं दर्पणमिति वदन्ति / तत्तु तथाविधपुस्तिकाबन्धलाभाभावे कथमिव विश्वसनीयं स्यात् / ध्वनिदूषणं तु तत्रापि संभवनिर्बाधमेव / किंचानेनैव महामनस्विना प्रथमं ध्वनिनिराकरणाय बीजवापः कृतः। तदुत्तरमेव महिमाचार्यैर्ध्वनिकारोक्तिषु पराक्रान्तमिति सुधीभिर्विभावनीयम् / आचार्यकुन्तकः। राजानकसंज्ञकब्राह्मणकुलोत्पन्नः काश्मीरेषु जनि लेभे / अस्य स्थितिसमयस्त्वीशवीयाब्दस्य दशमैकादशशतकयोस्तरालः / अयं स्त्रोपज्ञवृत्रिसहितं वको तिजीवितनामानमलङ्कारप्रबन्धं निबबन्ध / तत्र च लोकोत्तरप्रतिभेनानेन __ 'शब्दार्थों सहितौ वनकविव्यापारशालिनि / बन्धे व्यवस्थितौ काव्यं तद्विदाह्रादकारिणि // ' इत्यादिना काव्यजीवितालम्बना स्वतन्त्रा वक्रोक्तिः प्रतिष्ठापिता / एषाsपि महिमभट्टेन ध्वनिवदनुमानेऽन्तर्भाविता / अत्र बहूनां काव्य-नाटकालकारकर्तृणां श्लोका लभ्यन्ते / परं तेषां नामकृतिपरिचयो दुःसाध्य एव / नाम 1 अयं ग्रन्थः ढाकाविश्वविद्यालयाध्यापकैः डाक्तरश्रीसुशीलकुमारदेमहोदयैर्विशदयाङ्ग्लभाषाभूमिकया अन्यैश्चोपस्करैः संयोज्य संशोध्य च मुद्रापित इति तेभ्यः सबहुमानं साधुवादा उपहियन्ते।