________________ अलंकारसर्वस्वम् / 141 'अहो हि मे बहुपराधमायुषा यदप्रियं वाच्यमिदं मयेदृशम् / त एव धन्याः सुहृदां पराभवं जगत्यदृष्दैव हि ये क्षयं गताः॥ . अत्रायुःकर्तृकापराद्धत्वाक्षिप्तस्याधन्यत्वस्यायुर्विरुद्धक्षयगतिप्रयुक्तं घन्यत्वं विरुद्धं सामान्यरूपतया समर्थकत्वेनोक्तम् / कार्यकारणतायां वैध\णोदाहृतम् / हिंशब्दाभिहितत्वानभिहितत्वादिभेदाः खयमेव बोद्धव्याः / चारुत्वातिशयाभावान्नेह प्रदर्शिताः। एवमप्रस्तुतप्रशंसानुषजायातमर्थान्तरमुक्त्वा गम्यमानप्रस्तावागतं पर्यायोक्तमुच्यते गम्यस्यापि भङ्गयन्तरेणाभिधानं पर्यायोक्तम् / / - यदेव गम्यत्वं तस्यैवाभिधाने पर्यायोक्तम् / गम्यस्य सतः कथमभिधानमिति चेत्, गन्यापेक्षया प्रकारान्तरेणाभिधानस्याभावात् / नहि तस्यैव तदैव तयैव विच्छित्त्या गम्यत्वं वाच्यत्वं च संभवति / अतः कार्यमुखद्वारेणाभिधानम् / कार्यादेरपि तत्र प्रस्तुतत्वेन वर्णना कम् / सामान्यं तु विशेषेण समर्थ्यते यथा-'गुणानामेव दौरात्म्याद्धरि धुर्यो नियुज्यते / असंजातकिणस्कन्धः सुखं खपिति गौर्गडी॥' अत्रापि समर्थ्यसमर्थकभावसमर्थनादुदाहरणत्वं वाच्यम् / उदाहृतमिति ‘सहसा विदधीत-' इत्यादिना। एतदुपसंहरन्नन्यदवतारयति-एवमित्यादिना / तदेवाह-गम्यस्यापी त्यादि। ननु कथमेकस्यैवैकस्मिन्काले गम्यत्वं वाच्यत्वं च संभवतीत्याह-गम्यस्यैवेत्यादि / प्रकारान्तरेणेति कार्यादिद्वारेण / अत इति / ऐकस्यैवैकस्मिन्काले गम्यत्ववाच्यत्वासंभवात् / कार्यादिद्वारेणेत्यादिशब्दः प्रकारे / अभिधीयमानं हि कार्य तदविनाभावित्वात्स्वसिद्धये कारणमाक्षिपतीति गम्यमपि तद्वाच्यायमानमिति यदेव गम्यते तस्यैव भजयन्तरेणाभिधानम् / अतश्च 'खभ्यस्वदुर्नयजयस्तनयस्तदीयः मामाररक्ष जयवाहननामधेयः। दुरवैरिवरवीरवि 1. हिशब्दाभिहितानभिहितादि' क. 2. पर्यायान्तरेण' ख. 3. 'वाध्यत्वं गम्यत्वं' ख. 4. 'कार्याभिमुखेन' क. 5. 'गम्यस्य' क.