________________ 142 काव्यमाला। हत्वात् / अत एवाप्रस्तुतप्रशंसातो भेदः / एतच्च वितत्याप्रस्तुतप्रशं. साप्रस्तावे निर्णीतमिति तत एवावधार्यम् / उदाहरणम्-. 'स्पृष्टास्ता नन्दने शच्याः केशसंभोगलालिताः / सावज्ञं पारिजातस्य मञ्जयों यस्य सैनिकैः / / ' अत्र हयग्रीवस्य कार्यमुखेन खर्गविजयो वर्णितः / प्रभावातिशयप्रतिपादनं च कारणादिव कार्यादपीति कार्यमपि वर्णनीयमेवेति पर्यायोकस्यायं विषयः। गम्यत्वविच्छित्तिप्रस्तावाद्व्याजस्तुतिमाहस्तुतिनिन्दाभ्यां निन्दास्तुत्योर्गम्यत्वे व्याजस्तुतिः। यत्र स्तुतिरभिधीयमानापि प्रमाणान्तराद्वाधितस्वरूपा निन्दायां लासिनीनां स्वप्नावशेषमकरोत्प्रियदर्शनं यः // ' इत्यादावलंकारप्रकारत्वं न वाच्यम् / बहुधाजयत् इति हि क्रियमाणे 'गतोऽस्तमर्को भातीन्दुः' इत्यादिवतदकाव्यमेव स्यात् / न च दोषाभावमात्रमलंकारत्वमिति बहुशः प्रागुक्तं / यत्तु स्वप्नावशेषप्रियदर्शनात्मकं कार्यरूपेणार्थेन खसिद्ध्यर्थ कारणरूपस्तद्वध आक्षिप्यते तदितरप्रकारान्तरं पृथग्वक्तुं न युक्तमिति निबीजैव पर्यायोक्तान्तरवाचोयुक्तिः / अत एवेति / द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् / कार्यमुखेनेति / पारिजातमञ्जरीस्पर्शद्वारेणेत्यर्थः / खर्गविजय इति कारणरूपः / वर्णनीयमिति / प्रस्तुतमेवेत्यर्थः / आहेति स्तुतिनिन्दाभ्यामित्यादिना / प्रमाणान्तरादिति वक्तृवाच्यप्रकरणादिपर्यालोचनात्मनः / बाधितस्वरूपेति / आमुख एव / प्रस्खलद्रूपेत्यर्थः / अत एवास्या ध्वनेर्भेदः / स हि विश्रान्ते वाक्यार्थे वक्तृवाच्यौचित्यपर्यालोचनाबलादवगम्यते / इह पुनः प्रमाणान्तराद्वाधितः सन्वाक्यार्थः खयमनुपपद्यमानत्वात्परत्र निन्दादौ खं समर्पयति / तत्रैव प्रकृतवाक्यार्थस्य विश्रान्तेः / एवम्-'अह सजणाण मग्गो सुहअ तए चेअ .. 1. 'तथा-' क. 2. 'इत्यादावेव तदलंकार' क.. 3. 'मात्रत्वे' ख. 4. 'तदितरप्रकारान्तःपातित्वात्पृथग्वक्तुं' क, 5. परनिन्दादौ' ख. .