________________ काव्यमाला। 'अनन्तरत्नप्रभवस्य यस्य हिमं न सौमाम्यविलोपि जातम् / . एको हि दोषो गुणसंनिपाते निमज्जतीन्दोः किरणेष्विवादः // ' 'लोकोत्तरं चरितमर्पयति प्रतिष्ठा पुंसां कुलं नहि निमित्तमुदात्तायाः / वातापितापनमुनेः कलशात्प्रसूति लीलायितं पुनरमुद्रसमुद्रपानम् // ' 'सहसा विदधीत न क्रियामविवेकः परमापदां पदम् / वृणते हि विमृष्यकारिणं गुणलुब्धाः स्वयमेव संपदः।।' अत्र सहसाविधानाभावस्य विमृष्यकारित्वरूपस्य च कारणस्य संपद्धरणं कार्य साधम्र्येण समर्थकम् / तस्यैवैतत्कार्यविरुद्धत्वमापत्पदत्वम् / सहसाविधानामावविरुद्धाविवेककार्य वैधम्र्येण समर्थकम् / 'पृथ्वि स्थिरा भव भुजंगम धारयैनां त्वं कूर्मराज तदिदं द्वितयं दधीथाः / दिक्कुञ्जराः कुरुत तत्रितये दिधीर्षा देवः करोति हरकार्मुकमाततज्यम् / ' अत्र हरकार्मुकाततज्यीकरणं पृथ्वीखैर्यादिप्रवर्तकत्वे कारणं समअंकत्वेनोक्तम् / वैवार्येण सामान्य विशेषमावो यथा--- .. सामान्यस्य नैराकाषेण सिद्धस्येन्दोः किरणेष्विवाङ्क इति तदेकदेशभूतो विशेषस्तत्र प्रतीतिविशदीकरणार्थमुपात्तः / अतश्च विशेषस्यान्येन समर्थनमर्थान्तरन्यास इयत्र विशेषेणापि सामान्यस्य समर्थन मिति सूत्रणीयम् / अन्यथा ह्यव्याप्तिः खात् / तस्यैवेति सहसाविधानाभावस्य / एतत्कार्यविरुद्धमिति संपैद्धरणकार्यवि स्दम् / विरुद्धं सामान्यरूपतयेत्यनेन वैधयेण विशेषः सामान्येन समर्थित इत्यु 1. 'उदारतायाः' व. 2. 'वैधम्र्येणोदाहृतं समर्थकम्' क. 3. 'रामः-आनतज्यम्' ख. 'संपत्करणकार्याविरुद्धम् ख.