________________ अलंकारसर्वस्वम् / 139 उक्तन्यायेन प्राप्तावसरमर्थान्तरन्यासमाह सामान्य विशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतसमर्थनमर्थान्तरन्यासः। निर्दिष्टस्याभिहितस्य समर्थनार्हस्य प्रकृतस्य समर्थकात्पूर्व पश्चाद्वा निर्दिष्टस्य यत्समर्थनमुपपादनं न त्वपूर्वत्वेन प्रतीतिरनुमानरूपा सोऽ. र्थान्तरन्यासः / तत्र सामान्यं विशेषस्य विशेषो वा सामान्यस्य समर्थक इति द्वौ भेदौ / तथा कार्य कारणस्य कारणं वा कार्यस्य समर्थकमित्यपि द्वौ भेदौ / तत्र भेदचतुष्टये प्रत्येकं साधर्म्यवैधाभ्यां भेदद्वयेऽष्टौ भेदाः / हिशब्दाभिधानानभिधानाभ्यां समर्थकपूर्वोपन्यासोत्तरोपन्यासाभ्यां च भेदान्तरसंभवेऽपि न तद्गणना सहृदयहृदयहारिणी / वैचित्र्यस्याभावात् / तस्माद्भेदाष्टकमेवेहोदृक्तितम् / क्रमेण यथा भवति / अन्यथा पुनरस्या एवेति दर्शयितुमाह-तत्रेत्यादि / सर्वथेत्यनेनैतल्लक्षणस्याव्यभिचार उक्तः / उक्तन्यायेनेति / अप्रस्तुतप्रशंसाभेदानामेव वाच्यत्वकथनात् / आहेति सामान्येत्यादिना / समर्थनार्हस्येति / साकाङ्क्षत्वाद्दुपपा. दनापेक्षत्वात् / उपपादनमित्येवमेव / एतदिति नैराकाङ्क्षयोत्पादनलक्षणम् / कार्यकारणभावाश्रयस्य भेदद्वयस्य काव्यलिङ्गत्वं ग्रन्थकृदेव वक्ष्यतीति सामान्यविशेषभावाश्रयमेव भेदद्वयमाश्रयणीयम् / विशेषेणापि सामान्यसमर्थने यत्र सामान्यवाक्यस्योपपादनापेक्षत्वं तत्रायमेवालंकारः / नहि विशेषात्मकागस्त्यवृत्तान्तोपादानं विना पुंसां कुलवैलक्षण्येन चरितमात्रमेव प्रतिष्ठानिमित्तमिति सामान्यात्मा प्रकृतोऽर्थः सिद्धयेत् / तत्र पुनः खतःसिद्धस्यैव प्रतीतिविशदीकरणार्थं तदेकदेशभूतो विशेष उपादीयते तत्रोदाहरणालंकारः / गुणसंनिपाते दोषनिमजनात्मनः . 1. 'उपादानं' क. 2. 'एवं कार्यकारणभावे द्वौ भेदौ / तत्र' क. 3. 'उपमानापे' ख.