________________ 138 / काव्यमाला। प्रस्तुतं प्रति तात्पर्यात्प्रमुख एव तदध्यारोपेण प्रतीतिरिति युज्यत एवैतत् / उभयरूपत्वे यथा 'अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः। कथं कमलनालस्य मा भूवन्भङ्गुरा गुणाः // अत्र वाच्येऽर्थे कण्टकानां भङ्गुरीकरणे हेतुत्वं संभवि च्छिद्राणां त्यसंभवीत्युभयरूपत्वम् / प्रस्तुतस्य तात्पर्येण प्रतीतेस्तदध्यारोपात्तत्र संगतमेवैतदिति नासमीचीनं किंचित् / एतदेव च श्लेषगर्भायामस्यामुदाहरणम् / तदत्र सामान्यविशेषत्वेन कार्यकारणत्वेन सारूप्येण च यद्भेदपञ्चकमुद्दिष्टं तत्र द्वयोः सामान्यविशेषयोः कार्यकारणयोश्च यदा वाच्यत्वं भवति तदार्थान्तरन्यासाविर्भावः। सरूपयोस्तु वाच्यत्वे दृष्टान्तः / अप्रस्तुतस्य वाच्यत्वे प्रस्तुतस्य गम्यत्वे सर्वथाप्रस्तुतप्रशंसेति निर्णयः। मृशमक्षेत्रपतितः किमिक्षोर्दोषोऽसौ न पुनरगुणाया मरुभुवः // ' तथा-'पातः पूष्णो भवति महते नोपतापाय यस्मात्कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये / एतावत्तु व्यथयति यदालोकबास्तिमोभिस्तस्मिन्नेव प्रकृतिमहति व्योनि लब्धोऽवकाशः॥' तथा-पंथि निपतितां शून्ये लब्ध्वा निरावरणाननां ननु दूधिघटीं गर्वोनद्धः समुद्धरकंधरः। निजसमुचितास्तास्ताश्चेष्टा विकारशताकैलो यदि न कुरुते काणः काकः कदा नु करिष्यति // ' इत्युदाहरणान्यत्र मध्ये लेखितव्यानि येन ग्रन्थस्य संगतत्वं स्यात् / अत्र च सारूप्यं साधर्म्य वाच्यसंभवश्व स्फुट एव / तदध्यारोपेणेति प्रस्तुतारोपेण / एतदित्यचेतनेन सह प्रश्नोत्तरकरणम् / एतच्च सामान्यादिभेदपञ्चकं वाच्यं सदर्थान्तरन्यासदृष्टान्तयोर्विषयो 1. 'समुद्दिष्टं ख. 2. 'अवनिपतितां' ख. 3. 'कुला' ख... ..... .