________________ अलंकारसर्वखम् / समर्पयतीत्यप्रस्तुतप्रशंसैवात्र न्याय्येति वर्णयन्ति / सर्वथा पर्यायोक्ताप्रस्तुतप्रशंसयोर्विषयविभागस्तु निरूपित एवेति स्थितम् / एतानि साधोदाहरणानि / वैधम्र्येण यथा 'धन्याः खलु वने वाताः कहारस्पर्शशीतलाः। राममिन्दीवरश्यामं ये स्पृशन्त्यनिवारिताः॥' अत्र वाता धन्या इत्यप्रस्तुतादादहमघन्य इति वैधय॑ण प्रस्तुतोऽर्थः प्रतीयते / वाच्यस्य संभव उक्तान्येवोदाहरणानि / असंभवे यथा'कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते / वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकृतये मार्गस्थितस्यापि मे // ' अत्राचेतनेन सह प्रश्नोत्तरिका नोपपन्नेति वाच्यस्यासंभव एव / सर्वथेति / तत्र पर्यायोक्कमप्रस्तुतप्रशंसा वास्त्वित्यभिप्रायः / इह च सारूप्येण सापोदाहरणानां पूर्वमनुद्दिष्टानामप्येतानि साधोदाहरणानीसनेनातिदेशवाक्येनेति निश्चिनुमः / अयं हि ग्रन्थो ग्रन्थकृतः पश्चात्कैरैपि पत्रिकाभिलिखित इति प्रसिद्धिः। तैश्चानवधानादुदाहरणपत्रिका न लिखिता। अतिदेशवाक्यं च पत्रिकान्तराल्लिखितमिति ग्रन्थस्यासंगतत्वम् / बहूनि पुनरुदाहरणानि सारूप्यहेतुकस्य भेदस्य लक्ष्ये प्राचुर्यदर्शनार्थम् / एवं वाच्यस्य संभवे उकान्येवोदाहरणाबीत्यत्राप्ययमेवाभिप्रायो योज्यः / अतश्च 'परार्थे यः पीडामनुमवति मङ्गेऽपि मधुरो यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः / न संप्राप्तो वृद्धिं यदि स ... 1. 'शाहोटकं' क. 2. 'प्रश्नोत्तरता' ख. 3. 'अत्र' क. 4. 'साधम्र्येण सारूप्यो' ख. 5. 'कैश्चित्' ख.