________________ 136 काव्यमाला। प्राकरणिकत्वात् / तेनान्द्रादिगते नाञ्जनलिप्तत्वादिना अप्रस्तुतेन कार्येण प्रस्तुतं मुखादिगतं सौन्दर्य सहृदयाह्लादकारि गम्यते इत्यत्राप्रस्तुतप्रशंसा / एवं च यत्र वाच्योऽर्थोऽर्थान्तरं तादृशमेव खोपस्कारकत्वेनागूरयति तत्र पर्यायोक्तम् / यत्र पुनः खात्मानमेवाप्रस्तुतत्वाप्रस्तुतमर्थान्तरं प्रति समर्पयति तत्राप्रस्तुतप्रशंसेति निर्णयः / ततश्चानया प्रक्रियया 'राजनाजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुले भोजय मां कुमारसचिवैर्नाद्यापि संभुज्यते। इत्थं राजशुकस्तवारिभवने मुक्तोऽवगैः पञ्जरा __ चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते // ' इत्यत्र पर्यायोक्तमेव बोध्यम् / अन्ये तु दण्डयात्रोद्यतं त्वां बुवा त्वदस्यः पलाग्य गता इति कारणरूपस्यैवार्थस्य प्रस्तुतत्वात्कार्यरूपोऽयोंप्रस्तुत एव राजशुकवृत्तान्तस्याप्रस्तुतत्वात्प्रस्तुतार्थं प्रति खात्मानं प्रशंसितत्वात् / अतश्च द्वयोरपि प्रस्तुतत्वे पर्यायोकं प्रस्तुताप्रस्तुतत्वे त्व, स्तुतप्रशंसेति विषयविभागः / अतश्च सामान्यविशेषयोः प्रस्तुतत्वासंभवात्कार्यकारणयोः प्रस्तुतत्वेऽपि कार्यात्कारणप्रतीविवत्कारणात्कार्यप्रतीवैचित्र्याभावाच 'पर्यायत्वे कार्यहेत्वोर्भेदसामान्ययोस्तथा।अप्रस्तुतप्रशंसायां सरूपस्यैव गम्यता // ' इस्यायुक्तमयुक्तम् / यद्येवं तदत्र पर्यायोक्काप्रस्तुतप्रशंसयोः प्रस्तुताप्रस्तुतरूपं कार्य प्रस्तुतं कारणं कथमागूरयतीत्याशयाह-एवं चेत्यादि / तादृशमेवेति वाच्यम् / खोपस्कारकत्वेनेति / खसिद्ध्यर्थं परस्याक्षेपात् / समर्पयतीति वाच्योऽर्थः / इत्थं च 'खसिद्धये पराक्षेपः परार्थ खसमर्पणम् / उपादानं लक्षणं च' इत्युक्त्या लक्षणाद्वयाश्रितत्वादनयोरवान्तरोऽपि विषयभेदोऽस्तीत्यत्र तात्पयम् / ततश्चेति / अन्योर्भिन्नविषयत्वात् / अन्य इति काव्यप्रकाशकारादयः / ... 1. 'इत्यप्रस्तुतप्रशंसादौ' ख. ................