________________ अलंकारसर्वस्वम् / चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य / आलिङ्गनोद्दामविलासशून्यं रतोत्सवं चुम्बनमात्रशेषम् // ' इत्यादौ सुप्रसिद्ध पर्यायोक्तविषयेऽप्रस्तुतप्रशंसाप्रयोगः / अत्र हि गजासुरवधूगतेन लम्बालकत्वादिना कार्येण कारणभूतो गजासुरवधः प्रतीयते / तथा राहुवधूगतेन विशिष्टेन रतोत्सवेन राहुशिरश्छेदः कारणरूपो गम्यते / एवमन्यत्रापि पर्यायोक्तविषये ज्ञेयम् / तस्माद. प्रस्तुतप्रशंसाविषयत्वात्पर्यायोक्तस्य निर्विषयत्वप्रसङ्गः / नैष दोषः / इह यत्र कार्यात्कारणं प्रतीयते तत्र कार्य प्रस्तुतमप्रस्तुतं चेति द्वयी गतिः / यत्र यत्र प्रस्तुतत्वं कार्यस्य कारणवत्तस्यापि वर्णनीयत्वात्तत्र कार्यमुखेन कारणं पर्यायेणोक्तमिति पर्यायोक्तालंकारः। तत्र हि कारणापेक्षया कार्यस्यातिशयेन सौन्दर्यमिति तदेव वर्णितम् / यथोक्तोदाहरणद्वये / अत्र हि गैजासुरवधूवृत्तान्तोऽपि भगवत्प्रभावजन्यत्वात्प्रस्तुत एव / एवं राहुवधूवृत्तान्तेऽपि ज्ञेयम् / ततश्च नायमप्रस्तुतप्रशंसाविषयः / यत्र पुनः कारणस्य प्रस्तुतत्वे कार्यमप्रस्तुतं वर्ण्यते तत्र स्पष्टैवाप्रस्तुतप्रशंसा / यथा-'इन्दुर्लिप्त इवाञ्जनेन' इत्यादौ / अत्र हि इन्द्वादयः स्फुटमेवाप्राकरणिकाः। तत्प्रतिच्छन्दभूतानां मुखादीनां विलासवातायनसेवनेन श्लाघ्यामयोध्या नगरी विधेहि // ' अत्र स्वयंवराख्ये कार्य प्रस्तुते कारणस्याभिधानम् / ननु चात्र कार्यात्कारणस्य प्रतीतौ यद्यप्रस्तुतप्रशंसा स्यात्तद्वक्ष्यमाणस्य पर्यायोक्तालंकारस्य को विषय इत्याह-नन्वि. त्यादि / सुप्रसिद्ध इति सालंकारकाराभिमते / तत्रेति द्वयनिर्धारणे तदेव वर्णितमिति कार्यमेवोक्तम् / कारणस्य गम्यमानत्वात् / ततश्चेति द्वयोरपि कार्यकारणयोः प्रस्तुतत्वात् / स्पष्टैवेति / अप्रस्तुतस्यैव कार्यस 1. 'अत्र प्रसिद्धे' क. 2. 'गजासुरवध' क. 3. 'कारणे कार्यस्याभिधानम्' ख.