________________ 134 काव्यमाला। 'पश्यामः किमियं प्रपद्यत इति स्थैर्य मयालम्वितं किं मामालपतीत्ययं खलु शठः कोपस्खयाप्याश्रितः / इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे सव्याज हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया // ' / अत्र धाराधिरूढो मानः कथं निवृत्त इति कार्ये प्रस्तुते निवृत्तिकारणमभिहितम् / कार्यात्कारणप्रतीतो यथा'इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मगीणामिव प्रम्लानारुणिमेव विद्रुमरुचिः श्यामेव हेमप्रभा / कार्कश्यं कलयामि कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बः सगी इव // ' अत्र संभाव्यमानैरिन्द्वादिगतैरञ्जनलिप्तत्वादिभिः कार्यरूपैरप्रस्तुतैलोकोत्तरो वदनादिगतः सौन्दर्यातिशयः कारणरूपः प्रस्तुतः प्रतीयते / तेनेयमप्रस्तुतप्रशंसा / ननु कार्यात्कारणे गम्यमाने प्रस्तुतप्रशं. सायामिष्यमाणायाम् . 'येन लम्बालकः सासः कराघातारुणस्तनः / अकारि भमवलयो गजासुरवधूजनः // ' . इति / तथा नास्ति विश्वासः / बालः पायसदग्धो दध्यपि फूत्कृत्य भक्षयति // ' अत्र केनापि दुर्जनेन विप्रलब्धस्य कस्यचित्सुजनविशेषे विनम्भो न जायते / तस्य सुजनस्येयं विशेषे प्रस्तुते सामान्योक्तिः / तेनेति / अप्रस्तुतात्कारणात्प्रस्तुतस्य कार्यस्य प्रतीतेः / यथा वा-'अनेन साधं सरयूवनान्ते कूजन्मयूरीमुखरे विहृत्य / 1. 'प्रतिपत्तिर्यथा' ख. 2. 'गम्यमानायाम्' क. .. "