________________ सामान्याद्विश पहणो पकास पाहिजा विशेषात्सा अलंकारसर्वस्वम् / 133 प्यनयैव भङ्ग्या द्विधात्वम् / सारूप्ये त्वेको मेद इत्यस्याः पञ्च प्रकाराः, तत्रापि सारूप्यहेतुके भेदे साधर्म्यवैधाभ्यां द्वैविध्यम् / वाच्यस्य संभवासंभवोभयरूपताभिस्त्रयः प्रकाराः / श्लिष्टशब्दप्रयोगे स्वर्थान्तरस्यावाच्यत्वाच्छेषाद्विशेषः / श्लेषे ह्यनेकस्यार्थस्य वाच्यत्वमित्युक्तं तत्र सामान्याद्विशेषस्य प्रतीतौ यथा'तण्णस्थि किंपि पहणो पकप्पि ज ण णिअइघरणीए। . अणवर अगमणसीलस्स कालपहिअस्स पाहिजं / ' अत्र प्रहस्तवघे विशेष प्रस्तुते सामान्यमभिहितम् / विशेषात्सामान्यप्रतीतो यथा 'एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमस्त स जडः शृण्वन्यदस्मादपि / अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनै स्तत्रोड्डीय गतो हहेत्यनुदिनं निद्राति नान्तः शुचा / ' __ अत्र जडानामस्थान एवोद्यम इति सामान्ये प्रस्तुते विशेषोऽभिहितः / कारणात्कार्यप्रतीतो यथा सेबन्धद्वयं वास्तवम् / सारूप्यं पुनः प्रातीतिकमेव / प्रतीतावेव सदृशेन वस्त्वन्तरेण सदृशस्य वस्त्वन्तरस्य प्रतीतिसिद्धः / वस्तुत्वे हि वस्त्वन्तरप्रतीत्या वस्त्वन्तरप्रतीतिर्न स्यात् / अनयैव भङ्गयेति कारणात्कार्यस्य कार्याद्वा कारणस्य प्रसीती। तत्रापीति सत्यपि पञ्चप्रकारत्वे / श्लिष्टशब्दप्रयोग इति / श्लिष्टशब्दनिबन्धनाप्यप्रस्तुतप्रशंसा भवतीत्यनुवादाद्विधिः / अत एवास्य बहुप्रकारत्वमुक्तम् / प्रस्तुत इति / प्रहस्तवघवर्णनस्यैव प्रक्रान्तत्वात् / अत्र वाक्यान्तरोपात्ते विशेवात्मनि प्रस्तुते प्रहस्खवधे नियतिकर्मलक्षणं सामान्याभिधानमर्थान्तरन्यास इत्यन्ये मन्यन्त इत्युदाहरणान्तरेणोदाहियते / यथा-'दुर्जनदूषितमनसां पुंसां सुजनेऽपि 1. तत्रास्ति किमपि पत्युः प्रकल्पितं यन्त्र नियतिगृहिण्या / अनवरतगमनशीलस्य कालपथिकस्य पाथेयम् // ' इति च्छाया.