________________ 132 काव्यमाला। 'सादृश्यव्यक्तये यत्रापहवोऽसावपहुतिः। अपह्नवाय सादृश्यं यत्राप्येषाप्यपद्भुतिः // ' इति संक्षेपः / आद्या खप्रस्ताव एवोदाहृता, द्वितीया तु संपति दर्शिता / तेनालंकारान्तरविविक्तो नास्य विषयोऽस्तीति सर्वालंकारापवादोऽयमितिस्थितम् / प्रस्तुतादप्रस्तुतप्रतीतौ समासोक्तिरुक्ता // अधुना तद्वैपरीत्येनापस्तुतात्प्रस्तुतप्रतीतावप्रस्तुतप्रशंसोच्यते अप्रस्तुतात्सामान्यविशेषभावे कार्यकारणभावे सारूप्ये च प्रस्तुतप्रतीतावप्रस्तुतप्रशंसा। ___ इहाप्रस्तुतस्य वर्णनमेवायुक्तमप्रस्तुतत्वात् / प्रस्तुतपरत्वे तु कदाचित्तद्युक्तं स्यात् / न चाप्रस्तुतादसंबन्धे प्रस्तुतप्रतीतिः अतिप्र. सङ्गात् / संबन्धे तु भवन्ती न त्रिविधं संबन्धमतिवर्तते / तस्यैवार्थान्तरप्रतीतिहेतुत्वोपपत्तेः / त्रिविधश्च संबन्धः-सामान्यविशेषभावः कार्यकारणभावः सारूप्यं चेति / सामान्यविशेषभावे सामान्याद्विशेषस्य विशेषाद्वा सामान्यस्य प्रतीतौ दैविध्यम् / कार्यकारणभावेऽ. उक्तेति समनन्तरम् / यत्तु समासोक्त्यनन्तरं परिकरश्लेषयोर्वचनं तद्विशेषणसाभ्यादिना प्रसङ्गागतम् / तामेवाह-अप्रस्तुतादित्यादि / नन्विहाप्रस्तुतस्य वर्णनमेवायुक्तमिति कथं तस्मादपि प्रस्तुतस्य प्रतीतिर्भवतीत्याशलाह-दहे. त्यादि / तदित्यप्रस्तुतवर्णनम् / अतिप्रसङ्गादिति सर्वस्मात्सर्वप्रतिपत्त्यात्मनः / तस्यैवेति त्रिविधस्य संबन्धस्य / सामान्यस्य विशेषाश्रयत्वाद्विशेषस्य च सामान्यनिष्टत्वात्सामान्यविशेषयोः परस्परमागूरणे संबन्धः / एवं च कार्यस्य कारणपरतत्रत्वादन्त्यावस्थस्य कारणस्य कार्योन्मुखत्वात्कार्यकारणयोरपि संबन्धः। इत्थमेत. 1. 'अप्रस्तुतावगतो' ख. 2. 'इति' क. 3, भवतीति' खं. 4. 'दैवम्' क. 5. 'अत्यावश्यकस्य ख. --