________________ अलंकारसर्वस्वम् / 131 वल्कलसुताभ्यां त्वौपम्यं सूचनीयानरपेक्ष्येण सादृश्यसंभवमात्रेण संभवनीयम् / अतश्च प्रेकृतेन सूचनीयस्य संबन्धाच्छब्दशक्तिमूलो वस्तुध्वनिरयम् / इह च 'आकृप्यादावमन्दग्रहमलकचयं वक्रमासज्य वक्रे कण्ठे लमः सुकण्ठः प्रभवति कुचयोर्दत्तगाढाङ्गसङ्गः / बद्धासक्तिनितम्बे पतति चरणयोर्यः स तादृक्रियो मे बाले लज्जा निरस्ता नहि नहि सरले चोलकः किं त्रपाकृत् // इत्यलंकारान्तरविविक्तोऽयं श्लेषस्य विषय इति नाशङ्कनीयम् / अपहुतेरत्र विद्यमानत्वात् / वस्तुतोऽपह्नवस्य सादृश्यार्थभत्र प्रवृत्ते यमपलु. त्यलंकार इति चेत्, न। उभयथाप्यपह्नुतिसंभवात् / सादृश्यपर्यवसायिना वापहवेनापहवपर्यवसायिना वा सादृश्येन भूतार्थापवस्योभयत्र विद्यमानत्वात् / भयशक्तिमूलं शब्दशक्तिमूलस्य वस्तुध्वनेः श्रीमम्मटेनोपात्तम्। इह तु यथासंभवमेव विचारितम् / एवं स्वमतेन श्लेषस्य यथोपपत्ति स्वरूपं प्रतिपाद्यापि प्राच्यानुरोधात्पुनरपि तदीयमेव मतं दर्शयितुमाह-इह चेत्यादि / भूतार्थो वास्तवः संक्षेप इति प्रमेयसंचयात् / आयेत्यादि सादृश्यपर्यवसायापह्नवस्वरूपा / खप्रस्ताव इत्यपह्नुतिलक्षणे / उदाहृतेति पूर्णेन्दोरित्यादिना / द्वितीयेति अपहृतिपर्यवसायिसाहश्यरूपा / प्रदर्शितेति आकृष्यादावित्यादिना / अत्र च ग्रन्थकृता श्लेषः सर्वालंकारापवादक इति न केवलं प्राच्यमतानुसारमुक्तम् यावदपह्नवपर्यवसायिसादृश्यरूपोऽपह्नुतिभेदोऽपि तन्मतानुसारमेवोक्तः। यद्वक्ष्यति–व्याजोक्तौ चत्वारः प्रकारा विद्यन्त इत्युपक्रम्योगटसिद्धान्ताश्रयेण तत्तत्रोक्तमिति / अतश्चात्र ग्रन्थकृन्मते वक्ष्यमाणसादृश्या श्लेषमूला व्याजोक्तिः / तस्या एव वाक्यार्थीभूतत्वेन विश्रान्तः / 1. 'विश्रमणीयम्' ख. 2. 'प्रकृतत्वेन' ख. 3. 'मात्र' ख.