________________ 130 ..काव्यमाला। 'अलंकारोऽथ वस्त्वेव शब्दाद्यत्रावभासते / प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा // ' इति न्यायभवनबन्धेन द्विधा शब्दशक्त्युद्भव उक्तः / एवं प्रकृतेऽपि यत्र सूचनाव्यापारोऽस्ति तत्र शब्दशक्तिमूलो वस्तुध्वनिर्बोद्धव्यः / यथा. 'सद्यः कौशिकदिग्विजृम्भणवशादाकाशराष्ट्र रसा-. ___ त्यक्त्वा धूसरकान्तिवल्कलधरो राजास्तशैलं ययौ / तत्कान्ताप्यथ सान्त्वयन्त्यलिकुलध्वानैः समुल्लासिभिः - क्रन्दन्तं कुमुदाकरं सुतमिव क्षिप्रं प्रतस्थे निशा // इति / - हरिश्चन्द्रचरितेऽत्र प्रभातवर्णनानुगुण्येन राजशब्दाभिधेयेऽस्तमुपे. युषि चन्द्रे रोहिताश्वाख्यतनयसहितया उशीनर्या वध्वा युक्तस्य हरिश्चन्द्रस्य राज्ञो विश्वामित्रसंपादितोपद्रववशात्प्रातः खराष्ट्रं त्यक्त्वा वाराणसी प्रति गमनं सूचितं स्यात् / तथा च कौशिकशब्दः प्रकृते इन्द्रोल्कयोर्वर्तते / सूचनीयार्थविषयत्वेन तु विश्वामित्रवृत्तिः / शक्तिमूले ध्वनौ / अत एवेति / औपम्यं विनापि प्रकृताप्रकृतयोः प्रकारान्तरेण संबन्धस्योपपादयितुं शक्यत्वात्। उक्त इति काव्यप्रकाशकृता। चन्द्र इति वर्ण्यमान इति शेषः। सूचितमिति शब्दशक्त्या। तामेव विभज्य दर्शयति-तथा चेत्यादि मा। अतश्चेति / इत्येव शब्दशक्तीवात् / अत्र च यद्यपि सुतादिरूपार्थशक्तिरप्यस्तीति वस्तुध्वनेरुभयशक्तिमूलत्वमेव तथापि शब्दशतिरत्र स्फुटा स्थितेति तन्मूलत्वमेव ग्रन्थकृतास्योक्तम् / शुद्धस्तु शब्दशक्तिमूलो वस्तुध्वनिर्यथा-'न महानयं न च बिभर्ति गुणसमतया प्रधानताम् / खस्य कथयति चिराय पृथग्जनतां जगसनभिमानतां दधत् // ' अत्र केवलयैव शब्दशक्त्या सांख्यपुरुषरूपं वस्त्वभिव्यतम् / यत्तु काव्यप्रकाशसंकेते ग्रन्थकृता वस्तुध्वनेः शब्दशक्तिमूलत्वं चिन्त्यमुक्त तदुदाहरणाभिप्रायेणैवोन्नेयम् / तत्र हि पन्थिअ ण इत्थ सत्थर' इत्याद्युदाहरणमु. 1. 'भर' खे... 2. 'संपादितापद्धतिबशात्' क. 3. 'प्रस्थानं सूचितम्' ख. 4. शब्दशक्तिमूलत्वमस्य ग्रन्थकृतान्यानुमतानुरोधादुक्रम्' क.... ....