________________ अलंकारसर्वस्वम् / 129 उत्तरकालं तु विरोधसमाधिः / श्लेषस्य च सर्वालंकारापवादत्वाद्विरोधप्रतिभोत्पत्तिहेतुरयं श्लेषः / यत्र तु प्रस्तुताभिधेयपरत्वेऽपि वाक्यस्य श्लिष्टपदमहिना वक्ष्यमाणार्थनिष्ठमुपक्षेपापराभिधानं सूचकत्वं तत्र किं श्लेष उत शब्दशक्तिमूलध्वनिरिति विचार्यते-तत्र न तावच्छेषः / अर्थद्वयस्यानन्वितत्वेनाभिधेयतया वक्तुमनिष्टेः / नापि ध्वनिः / उपक्षेप्यस्यार्थस्यसंबद्धत्वाभावात्तेन सहोपमानोपमेयत्वस्याविवक्षणात् / न चान्या गतिरस्ति तदत्र किं कर्तव्यम् / उच्यते-श्लेषस्योक्तनयेनाप्रवृत्तेव॑नेरेवायं विषय इति निश्चिनुमः / तथाहि शब्दशक्तिमूले ध्वनावर्थान्तरस्योसंबद्धत्वात्संबन्धार्थमौपम्यं कल्प्यते। स च संबन्धः प्रकारान्तरेणौपम्यपरिहारेण यद्यप्युपपादयितुं शक्यः स्यात् तत्कोऽयमभिनिवेशस्तत्र / उपमाध्यनौ वस्तुध्वनिरपि संबन्धान्तरेण समीचीनः स्यात् / अत एवं श्लेपोऽयमित्याह-श्लेपस्येत्यादि / तेनाद्यः पक्षः खाभिप्रायेण ग्रन्थकृतोक्तः / यद्वक्ष्यत्येतच्छोकविचार एव संकरालंकारे / अत्र प्रथमेऽर्धे विरोधप्रतिभोत्पत्तिहेतुःश्लेषः। दर्शनान्तरे तु विरोधश्लषौ द्वावलंकाराविति / तदेवं खमताभिप्रायेणास्थालंकारान्तरवदन्यालंकारैः सह बाध्यबाधकभावं संकीर्णत्वं च प्रकाश्य शब्दशक्त्युद्भवाद्धनेविशेष प्रतिपादयति-यत्र त्वित्यादिना / असंबद्धत्वाभावादिति उपक्षेप्यस्यार्थस्य वर्णनीयत्वात् / अन्येति श्लेषध्वनिव्यतिरिक्ता। उक्तनयेनेति अर्थद्वयस्यान्वितत्वेनाभिधेयतया वक्तुमनिष्टेरित्यनेन / संबन्धार्थमिति संगत्यर्थम् / यथा-'अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा / तारकातरला श्यामा सानन्दं न करोति कम् // ' अत्र प्रकृताप्रकृतयोरसंबद्धार्थत्वं मा प्रसाहीदिति नायिकाशशिनो. रौपम्यं कल्पनीयम् / संबन्धान्तरेणेति यत्र यादृशेन विवक्षितेन / तत्रेति शब्द 1. 'विरोधि' क. 2. 'उपेक्षैव परा' ख, 3. 'तत्र' ख. 4. 'नयेनानाप्रवृत्तेः' ख. 5. 'संबन्धत्वात्संवन्धेनार्थ' ख. 9 अ० स०