________________ 128 काव्यमाला। ततश्च हेतुफलयोर्द्वयोरप्यत्रोत्प्रेक्षा / विरोधालंकारस्य च विरोधाभासत्वं लक्षणम् / अतो विरोधाभासनसमय एव हेतुफलोत्प्रेक्षयोरुत्थानम् / देति / बाधोदयेपि पैत्तिकज्वलत्स्तम्भतैमिरिकचन्द्रद्वयावभासवद्विरुद्धप्रैतिभासानिवृत्तेः / केवलमत्र तद्वशादेवानुपपद्यमानताकारा स्खलद्गतितैवावगम्यते / स्खलद्गतित्वे च प्रतिपत्तृव्यवहारं प्रति निमित्तत्वानुपपत्तिः / न हि पैत्तिकः स्वपित्तविकाराज्ज्वलत्स्तम्भदर्शनं मन्यमानस्तत्र दाहपाकाद्यर्थितया प्रवर्तते / तिमिरदोष वा जानानस्तैमिरिकोऽपि बहिश्चन्द्रद्वयास्तित्वव्यवहारं विधत्ते / एवं बाधोत्पत्तेरनुपपद्यमानत्वात्स्खलद्गतित्वेन प्रतीयमानोऽपि विरोधो न प्रतिपत्रपेक्षोत्प्रेक्षणलक्षणव्यवहारनिमित्तभावमुपगन्तुमुत्सहते / यतोऽनुपपद्यमानत्वेन स्खलद्गतित्वमुपपद्यमानत्वेन च व्यवहारनिमित्तत्वमिति परस्परविरुद्धत्वादनुभवविरोधाच तयोः कथमेकत्र समावेशो घटते / अतश्चानेनैवाभिप्रायेणाह-अत इत्यादि / विरोधाभासनसमय एवेति / न तु बाधकोदयसमय इत्यर्थः / बाधोदयानन्तरं विरोधस्योत्प्रेक्षाहेतुत्वं न युज्यते इत्युपपादितं स्थितं चोत्प्रेक्षाहेतुत्वं विरोधस्येति बाधोदयात्प्रागेवान्यथानुपपत्त्या निश्चीयते / बाधस्य च वारसिकत्ववस्तुवृत्तेः पालोचनालभ्यत्वेन द्विविधस्यापि सर्वत्रोत्तरकालमेवोल्लासः संभवति / तस्य च बाध्यनिष्ठत्वाद्वाध्यस्य च पूर्वकालभावित्वात् / अन्यथा हि निर्विषयो बाधः स्यात् / अतश्चोत्तरकालं तु विरोधसमाधिरिति भणितेरर्थमजानानेनायमर्थोऽन्वेषणीयः / यदि हि बाधः प्रागप्युत्प्रेक्षायाः खाधिकारवशेन खरसत एवोल्लसेत्तदुक्कनीत्या उत्प्रेक्षोस्थानमेव न स्यादित्यबाधित एवं विरोध उत्प्रेक्षाया निमित्तमित्युक्तमुत्तरकालं विरोधसमाधिरिति / स च समाधिरत्र दिगाद्यर्थाधिगमादवबुध्यत इति विरोधस्य लेषोऽनम् / तद्वशादेवास्योत्थानात् / तथा चात्रानयोः संकीर्णत्वमात्रमेव न पुनः संकरालंकारः / स तु यथा-'संजातपत्रप्रकराञ्चितानि समुद्वहन्ति स्फुटपाटलत्वम् / विकखराण्यर्ककरप्रभावाद्दिनानि पद्मानि च वृद्धिमीयुः // ' अत्र श्लेषतुल्ययोगितयोरेकवाचकानुप्रवेशेन संकरः / प्राच्यानां मते पुनरेतत्प्रतिभोत्पत्तिहेतुः 1. 'एव' ख. 2. 'उत्थानं स्यात्' ख. 3. प्रतिभानिवृत्तः' क. 4. भावितत्वात्' क. 5. 'स्वविकार' ख. 6. पद्मपक्षे 'सत्-जात-पत्र' इति, दिनपक्षे 'सज्ज-आतपत्र' इति च्छेदः.