________________ अलंकारसर्वस्वम् / 127 'त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवखान् / मन्येऽस्तशैलात्पतितोऽत एव विवेश शुध्यै वडवाग्निमध्यम् // ' अत्र श्लोके विवस्वतो वस्तुवृत्तसंभवि अधःप्रदेशसंयोगलक्षणं यत्पतितत्वं यच्च वडवाग्निमध्यप्रवेशस्ते द्वे अपि त्रयीमयत्वसंबन्धिवारुणीगमनरूपविरुद्धाचरणहेतुकाभ्यां पतितत्वाग्निप्रवेशाभ्यामतिशयोक्त्या श्लेषमूलया अभेदेनाध्यवसिते / सोऽयमेकक्रियायोगः / तद्धेतुका च मन्ये अत एव शुद्ध्यै इत्युत्प्रेक्षा(क्षया)। अत्रात एवेति परामृष्टो विरोघालंकारालंकृतोऽर्थों हेतुत्वेनोत्प्रेक्ष्यते / शुद्ध्यै इति च फलत्वेन / भावं प्रकाश्यान्यैः सहास्य संकीर्णत्वं दर्शयति-इह त्वित्यादिना / वडवाग्निमध्यप्रवेशेऽपि वस्तुवृत्तसंभवीति विशेषणं लिङ्गविपरिणामाद्योज्यम् / ते द्वे इति वडवाग्निमध्यप्रवेशपतितत्वे / पतितत्वाग्निप्रवेशाभ्यामिति ब्राह्मण्यपरिच्यावप्रायश्चित्तात्मकाभ्याम् / सोऽयमिति / यत्पतितत्वाग्निप्रवेशयोर्वस्तुतोऽन्यथास्थितयोरप्यन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसायः / तद्धेतुकेति तच्छब्देन तत्क्रियायोगपरामर्शः / फलत्वेनेति उत्प्रेक्ष्यत इत्यत्रापि संबन्धः / ततश्चेति हेतुफलयोईयोरुत्प्रेक्ष्यमाणत्वात् / ननु विरोधालंकारस्य विरोध एव रूपं तस्य दुष्टत्वात्कृते च समाधाने विरोध एव नास्तीति विरोधालंकृतोऽर्थः कथमत्रोत्प्रेक्षायां हेतुत्वं भजत इत्याशङ्कयाह-विरोधेत्यादि / यद्वक्ष्यति–'विरोधाभासत्वं विरोधः' इति / अत एव च विरोधस्याभासमात्रसारत्वाद्यथावभासं विश्रान्त्यभावान्न प्ररोहो नापि बौधोत्पत्तावपि पैत्तिकज्वलस्तम्भतैमिरिकचन्द्रद्वयावभासवदस्ति प्रत्यय इति नात्र पूर्व विरोधबोधः पश्चाद्विरोधधीरिति वाक्यस्यावस्थाद्वयम् / ननु बाध्यनिषेधपरो नैतदेवमिति प्रत्ययरूपो बाधो बाँध्ये च तथैव प्रतीयते किं तेन कृतं स्यादिति चेत् , स्खलद्गतित्वमिति ब्रूमः / तथाहि शुक्तिकारजतमरीचिकासलिलादिविभ्रान्तिविव नात्र प्रथमप्रवृत्तविरुद्धप्रतिभासखभावबाध्यविज्ञानसमुत्पुंसनेन बाधकत्वमु. 1. 'इति' क. 2. 'मूलतया' ख. 3. 'हेतुकत्वेन' क. 4. 'सिद्धयोः' क. 5. 'अतश्चेति' क. 6. 'न रूपं' ख, 7. 'विरोधालंकाराकृतो' क. 8. बाध्यो. त्पत्तौ' ख. 9. 'वोधत्वाचात्र विरोधधीः' क.१०. 'बाध्यं' क.