________________ 126 . काव्यमाला। श्लेषविषयं व्याप्त्या व्यवतिष्ठते / तत्पृष्ठे चालंकारान्तराणामुत्थापनमिति नास्ति विविक्तोऽस्य विषयः / अत एवालंकारान्तराणां बाधितत्वात्प्रतिभानमात्रेणावस्थानम् / 'येन ध्वस्तमनोभवेन' इत्यादौ च प्राकरणिकत्वादर्थद्वयस्य तुल्ययोगितायाः प्रतिभानम् / एवं च 'सकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिव' इत्यादौ न गुणक्रियासाम्यवच्छब्दसाम्यमुपमाप्रयोजकमपि तूपमाप्रतिभोत्पत्तिहेतुः श्लेष एवावसेयः / श्लेषगर्भ तु रूपके रूपकहेतुकस्य श्लेषस्य तृतीयकक्षायां रूपक एव विश्रान्तिरिति रूपकेण श्लेषो बाध्यते / श्लिष्टविशेषणनिबन्धनायां च समासोक्तौ विशेष्यस्यापि गम्यत्वाच्छेषस्य बाधिका समासोक्तिः / इँह तु द्योतकस्तावच्छब्दः / व्याप्त्येति / सर्वलक्ष्यव्यापकत्वेन सर्वत्रैवास्य त्रिरूपत्वात् / तत्पृष्ट इति तुल्ययोगितादीपकोपरि / अलंकारान्तराणामित्युपमादीनाम् / उत्थापनमिति / तुल्ययोगितादीपकाभ्यामपि तत्प्रतीतेरुद्रेकात् / अत एवेति / तस्य विविक्तविषयत्वासंभवात् / प्रतिभानमित्याभासमात्रम् / न पुनस्तत्रैव विश्रान्तिरित्यर्थः / एतच्च यथा नोपपद्यते तथा समनन्तरमेवोक्तम् / तदेवं खमतोपोद्वलनाय पूर्वमस्यान्यैः सह संकरो दुर्बलत्वादा (भावान्नान्य)बाध्यत्वमिति यदुकं तदेव प्रपञ्चयितुमेतत्कर्तृकं तावदन्यालंकारबाध्यत्वं दर्शयति-श्लेषेत्यादिना। तृतीयकक्षायामिति / प्रथमकक्षायां हि रूपकप्रतीतिरेव / द्वितीयकक्षायां तु श्लेषप्रतीतिः / श्लेषस्य सर्वालंकारापवादत्वमिच्छद्भिरप्यौटैर्यदन्यालंकारबाध्यत्वमेतस्योक्तं तत्सर्वजनविरुद्धप्रायमेतेषामिति ध्वनयितुं तदुक्तमेव रूपकसमासोक्तिबाध्यत्वमेतस्य ग्रन्थकृतेह दार्शतम् / बाध्यत इति विद्वन्मानसहंसेत्यादौ / बाधिकेति उपोढरागेणेत्यादौ / एवं श्लेषस्यान्यालंकाराणां च परस्परं बाध्यबाधक 1. 'उत्थानं' क. 4. 'उत्थानमिति' क. 2. 'प्रतिभासनम्' ख, 3. 'इह तु' क-पुस्तके नास्ति. 5. 'कर्मकं' क. 6. 'तद्वचन' क.