________________ अलंकारसर्वस्वम् / 125 एष चे नाप्राप्तेष्वलंकारान्तरेष्वारभ्यमाणस्तबाधकत्वेन तत्प्रतिभोत्पत्तिहेतुरिति केचित् / 'येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतः' इत्यादौ विविक्तोऽस्य विषय इति निरवकाशत्वाभावान्नान्यबाधकत्वमित्यन्यैः सह संकरः / दुर्बलत्वाद्वा बाध्यत्वमित्यन्ये / तत्र पूर्वेषामयमभिप्रायः / इह प्राकरणिकाप्राकरणिकोभयरूपानेकार्थगोचरत्वेन तावप्रतिष्ठितोऽयमलंकारः। तत्राद्यं प्रकारद्वयं तुल्ययोगिताया विषयः / तृतीये तु प्रकारे दीपकं भवतीति तावदलंकारद्वयमिदं लंकारः / तदेवंरूपस्यास्य 'निरवकाशा हि विधयः सावकाशान्विधीन्बाधन्ते' इति नीत्या निरवकाशत्वात्सर्वालंकारापवादकत्वं केचिदाहुरित्याह-एष चेत्यादि / केचिदित्युद्भटादयः / केचित्पुनर्विषयवैविक्त्यस्य संभवान्निरवकाशत्वाभावान्नास्य सर्वालंकारापवादकत्वमभ्युपयन्तीत्याह-येनेत्यादि / अन्या इति मादृशाः / विविक्तोऽस्य विषय इति तुल्ययोगिताया अत्राभावात् / सा हि द्वयोरपि प्रकृतयोरप्रकृतयोर्वा विशेष्ययोः पृथगुपादाने औपम्यस्य च गम्यत्वे भवति / इह तु तदभावः / विशेष्ययोः पृथगनुपादानात् औपम्यस्य च गम्यत्वाभावात् / नह्यत्रोमाधवस्य माधवेन तेन वा तस्य सादृश्यं विवक्षितम् / एकेनैव शब्देन श्लिष्टतयार्थद्वयस्य प्रतिपिपादयिषितत्वात् / अत्र हि परस्परनेरपेक्ष्यात्तयोरुमाधववाक्यार्थपरामर्शवेलायां माधववाक्यार्थपरामर्शमात्रमपि नास्तीति को नामौपम्यस्यावसरः / तस्मादेवमादावलंकारान्तरविविक्तविषयत्वाच्छृिष्टतायाश्चोद्धरकंधरीभावेन प्रतीतेर्न निरवकाशः श्लेषः / अन्यैः सह संकर इति द्वयोरपि तुल्यकक्षताप्रतीतेः। बाध्यत्वमिति / श्लेषस्य दुर्बलत्वादलंकारान्तराणां च बलवत्त्वात् / एतच्च ग्रन्थकृदेवाग्रे दर्शयिष्यतीति नेहायस्तम् / तदेवमस्य सर्वालंकारापवादकत्वं न युक्तम् / अन्यालंकारवदेव बाध्यबाधकभावादिदर्शनात् / एतच्चालंकारसारकृता सप्रपञ्चमुतमितीह ग्रन्थविस्तरभयात्तथा नोक्तम् / पूर्वेषामित्युद्भटादीनाम् / अविप्रतिपत्ति 1. 'एषु' क. 2. 'च, प्राप्तेषु' ख. 3 'बाधकत्वात्' क. 4. 'इह' क. 5. 'दुर्लभत्वा' क. 6. 'प्रतितिष्ठतो' क. 7. 'एव विषयः' क. 8. 'दुर्लभत्वात्' क.