________________ 124 काव्यमाला / अलंकार्यालंकरणभावस्य लोकवदाश्रयाश्रयिभावेनोपपत्तेः। 'रक्तच्छदत्वं' इत्यादावर्थद्वयाश्रितत्वादयमर्थालंकारः। 'नालं' इत्यादौ तु शब्दद्वयाश्रितत्वाच्छब्दालंकारोऽयम् / यद्यप्यर्थभेदाच्छब्दभेद इति दर्शने 'रक्तच्छदत्वं' इत्यादावपि शब्दाश्रितोऽयं तथाप्यौपपत्तिकत्वादत्र शब्दभेदस्य प्रतीतेरेकतावसायान्नास्ति शब्दभेदः। 'नालं' इत्यादौ तु प्रयत्नादिभेदात्प्रातीतिक एव शब्दभेदः / अतश्च पूर्वत्रैकवृन्तगतफलद्वयन्यायेनार्थद्वयस्य शब्दश्लिष्टत्वंम् / अपरत्र जतुकाष्ठन्यायेन खयमेव श्लिष्टत्वम् / पूर्वत्रान्वयव्यतिरेकाभ्यां शब्दहेतुकत्वाच्छब्दालंकारत्वमिति चेत् , न / आश्रयाश्रयिभावेनालंकारत्वस्य लोकवब्यवस्थानात् / अस्य च शब्दार्थाश्रितत्वादुभयालंकारतां दर्शयति-अलंकार्येत्यादिना / ननु च 'यावन्त एवमर्थाः स्युः शब्दास्तावन्त एव हि' इत्याद्युक्त्यारक्तच्छदत्वमित्यादावपि शब्दद्वयाश्रयाच्छब्दालंकार एवायं तत्कथमन्यथोक्तमित्याशयाहयद्यपीत्यादि / एकतावसायादिति / रक्तच्छदत्वादेः प्रयत्नादिभेदं विना सादृश्येनार्थद्वयाभिधानात् / अतश्चेति / अर्थद्वयस्य शब्दद्वयस्य च श्लिष्टत्वात् / पूर्वत्रेति / रक्तच्छदत्वमित्यादौ शब्दस्य वृन्तस्थानीयत्वात् / अपरत्रेति नालमित्यादौ ।जतुकाष्ठन्यायेनेति परस्परं संवलितत्वात् / पूर्वत्रेति रक्तच्छदत्वमित्यादौ। अन्वयव्यतिरेकाभ्यामिति / रक्तच्छदत्वमित्येव शब्दे स्थिते श्लेषः शब्दपरिवर्तने तु कृते न श्लेष इत्यत्रापि शब्दहेतुकत्वात्तदलंकारत्वमेवेत्यर्थः / आश्रयाश्रयिभावेनेति / न पुनरन्नयव्यतिरेकाभ्याम् / ताभ्यां हि यस्य यद्धेतुकत्वं तस्य तत्कार्यत्वं स्यान्न पुनस्तदलंकारत्वम् / लोकवदिति / लोके हि यथा कर्णाश्रितः कुण्डलादिः कर्णालंकार उच्यते न पुनः सुवर्णकारणहेतुकत्वात्तद 1. 'प्रतीतो' क. 2. 'भेदात्म' क. 3. 'कृष्णच्छदत्त्वमित्येव' क. 4. 'तदलंकारबाध्यत्वमुच्यते' क.