________________ अलंकारसर्वस्वम् / 123 'खेच्छोपजातविषयोऽपि न याति देहीति मार्गणशतैश्च ददाति दुः। मोहात्समाक्षिपति जीवितमप्यकाण्डे ___ कष्टं मनोभव इवेश्वरदुर्विदग्धः // ' अत्र हरिहरयोर्द्वयोरपि प्राकरणिकत्वम् / पद्मानां मृगाणां चोपमानत्वादप्राकरणिकत्वम् / ईश्वरमनोभवयोः प्राकरणिकाप्राकरणिकत्वम् / एष च शब्दार्थोभयगतत्वेन वर्तमानत्वात्रिविधः / तत्रोदाचादिखरमेदात्प्रयत्नभेदाच शब्दान्यत्वे शब्दश्लेषः / यत्र प्रायेण पदभङ्गो भवति / अर्थश्लेषस्तु यत्र खरादिभेदो नास्ति / अत एव न तत्र सभङ्गपदत्वम् / संकलनया तूभयश्लेषः / यथा 'रक्तच्छदत्वं विकचा वहन्तो नालं जलैः संगतमादधानाः / निरस्य पुष्पेषु रुचिं समयां पद्मा विरेजुः श्रमणा यथैव // ' अत्र रक्तच्छदत्वमित्यादावर्थश्लेषः / नालमित्यादौ शब्दश्लेषः / उभयघटनायामुभयश्लेषः / ग्रन्थगौरवभयात्तु पृथङोदाहृतम् / समुत्पद्यते तेषां तैः समलंकृतं निजकुलं तैरेवं लब्धा क्षितिः / तेषां द्वारि नदन्ति वाजिनिवहास्ते भूषिताः प्रत्यहं ये दृष्टाः परमेश्वरेण भवता तुष्टेन रुष्टेन वा // ' अत्र पदानां सभङ्गत्वं स्पष्टम् / अर्थश्लेषो यथा-'इच्छन्तौ चिबुकाग्रचुम्बनमथो शैथिल्यशङ्कोज्झितौ नैबिड्येन परस्परस्य न मनाकेनापि लब्धान्तरौ / धन्यौ तौ तरुणीस्तनाविव न यो स्वप्नेऽपि विश्लिष्यतो विश्लेषं विषमं विषह्य भवतो नाधोमुखौ जातु वा // ' अत्र पदानामसभङ्गत्वं स्पष्टम् / संकलनया तु ग्रन्थकृतैवोदाहृतम् / 1. 'प्राकरणिकत्वात्' क. 4. 'तैश्चापि' ख. 2. 'इत्यत्र' क. 3. 'सदा दृश्यते' ख.