________________ 122 काव्यमाला। णिकाप्राकरणिकयो लिष्टपदोपनिबन्धे श्लेषः / तत्राचं प्रकारद्वयं विशेषणविशेष्यसाम्य एव भवति / तृतीयस्तु प्रकारो विशेषणसाम्य एव भवति / विशेष्यसाम्ये त्वर्थप्रकरणादिना वाच्यार्थनियमेऽर्थान्त. रंगतध्वनेविषयः स्यात् / आये तु प्रकारद्वयो द्वयोरप्यर्थयोर्वाच्यत्वम् / अत एवाह-'द्वयोर्वोपादाने' इति तृतीयप्रकारविषयत्वेनोक्तम् / 'विशेष्यस्यापि साम्ये' इति तु शिष्टप्रकारद्वयविषयम् / क्रमेण यथा'येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतो यश्चोत्तभुजंगहारवलयो गङ्गां च योऽधारयत् / यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः पायात्स खयमन्धकक्षयकरस्त्वां सर्वदोमाधवः / / " 'नीतानामाकुलीभावं लुब्धैभूरिशिलीमुखैः / सदृशे वनवृद्धानां कमलानां तदीक्षणे // ' तमासम्मि लद्धपसराणं / आपीअलोहिआणं वीहेइ जणो पलासाणं // ' अत्र पलाशानामिति विशेष्यस्यापि श्लिष्टत्वम्। प्रकरणवशाच वृक्षविशेषणामेव वाच्यत्वनियमात्प्रस्तुतत्वेन निशाचराणामप्रस्तुतानां व्यङ्ग्यत्वम् / अत्र चोपमाया एव व्यङ्ग्यत्वं युक्तं नातिशयोक्तेरिति प्रकृतानुपयोगादिह नोक्तम् / ननु च यथैवायं ध्वनेर्विषयस्तथैवाद्यमपि भेदद्वयं किं न भवतीत्याशङ्कयाह-आद्य इत्यादि / वाच्यत्वमिति / अत एव न ध्वनेविषयः / तस्य वाच्यातिरिक्तस्वरूपत्वात् / तृतीयप्रकारविषयत्वेनेति प्राधान्यादुक्तम् / आद्यस्यापि प्रकारद्वयस्य द्वयोरुपादानसंभवात् / एष इति त्रिविधोऽपि श्लेषः / तत्रेति त्रयनिर्धारणे। यत्रेति शब्दश्लेषे / अत एवेति स्वरादिभेदाभावात् / संकलनयेति संसभङ्गासभङ्गपदसंमेलनया / पृथगिति भेदेन / तत्र शब्दश्लेषो यथा-'ते गच्छन्ति महापदं भुवि पराभूतिः 1. 'गति' ख. 2. 'विशेषत्वेन' ख. 3. 'श्लिष्ट' क. 4. 'येरेवायं' ख. 5. 'सभङ्गासभङ्गपदभङ्गमेलनया' क..