________________ अलंकारसर्वस्वम् / अत्रोपगूढत्वेन शान्ततडित्कटाक्षत्वेन च शशाङ्कशरदो यकव्यवहारप्रतीतौ समासोक्त्यालिङ्गित एवार्थों विशेषरूपः सामान्याश्रयेणार्थान्तरन्यासेन समर्थ्यते / सामान्यस्य चात्र श्लेषवशादुत्थानम् / शान्ततडित्कटाक्षेत्यौपम्यगर्भ विशेषणं समासान्तराश्रयेणात्र समानम् / असमाप्तेत्यादौ तु स्त्रीशब्दस्य सामान्येन स्त्रीत्वमात्राभिधानात्सामान्यरूपोऽर्थो लिङ्गविशेषनिर्देशगर्भेण कार्योपनिबन्धनेनोत्थापितया समासोक्त्या समारोपितनायकव्यवहारेण रविसंध्यावृत्तान्तेन विशेषरूपेण समर्थ्यते / आकृष्टिवेगविगलद्भुजगेन्द्रभोग निर्मोकपट्टपरिवेषतयाम्बुराशेः। मन्थव्यथाव्युपशमार्थमिवाशु यस्य ___ मन्दाकिनी चिरमवेष्टत पादमूले / ' अत्र निर्मोकपट्टापह्नवेन समारोपिताया मन्दाकिन्या यद्वस्तुवृत्तेन पादमूले वेष्टनं तच्चरणमूले वेष्टनत्वेन श्लेषमूलयातिशयोक्त्याध्यवसीयते / तत्तथाध्यवसितं मन्थव्यथाव्युपशमार्थमिवेत्युत्प्रेक्षामुत्थापयति / सोत्थाप्यमानैवाम्बुराशिमन्दाकिन्योः पतिपत्नीव्यवहाराश्रयां समासोक्तिं उक्तः / सेत्युक्तप्रपञ्चा। सामान्यस्येत्यङ्गनाशब्दस्य स्त्रीत्वमात्राभिधानात् / श्लेषवशादिति / पयोधराणां हि श्लिष्टत्वम् / लिङ्गविशेषेति / रविसंध्ययोः पुंस्त्रीरूपेण कार्य भजनाख्यम् / एवमन्यालंकारसंमिश्रत्वमप्यस्या दर्शयतिआकृष्टीत्यादिना / सेत्युत्प्रेक्षा / एकः काल इति / ज्ञप्तौ समासोक्तिगर्भी 1. 'नायकनायिकाव्यवहारन्यासप्रतीतौ' ख. 2. 'नायकनायिका' ख. 3. 'आकृष्ट' क. 4. 'पादमूल' क. 5. 'चरणमूल' क. 6. 'भर्तृपत्नी' क. 7. 'आकृष्टेत्यादि' क.