SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 120 ___' काव्यमाला। गर्भीकरोति / एवं चोत्प्रेक्षासमासोक्त्योरेकः कालः / एवं 'नखक्षतानीव वनस्थलीनाम्' इत्यत्रापि वनस्थलीनां नायिकाव्यवहार उत्प्रेक्षान्तरानुप्रविष्टसमासोक्तिमूल एव / एवमियं समासोक्तिरनन्तप्रपञ्चेत्यनया दिशा खयमुत्प्रेक्ष्या। * विशेषणसाभिप्रायत्वं परिकरः। ... विशेषणवैचित्र्यप्रस्तावादस्यह निर्देशः। विशेषणानां साभिप्रायत्वं प्रतीयमानार्थगर्भीकारः। अत एव प्रसन्नगम्भीरपदत्वान्नायं ध्वनेर्विषयः। एवं च प्रतीयमानांशस्य वाच्योन्मुखत्वात्परिकर इति सार्थकं नाम / यथा'राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च / कारेणैवोत्प्रेक्षाया उत्थानात् / एवमिति। यथोक्तगत्येत्यर्थः / विशेषणेत्यादि / इहेति समासोक्त्यनन्तरम् / विशेषणानां चात्र बहुत्वमेव विवक्षितम् / अन्यथा ह्यपुष्टार्थस्य दोषत्वाभिधानात्तन्निराकरणेन खीकृतस्य पुष्टार्थस्यायं विषयः स्यात् / एवमेवंविधानेकविशेषणोपन्यासद्वारेण वैचित्र्यातिशयः संभवतीयस्यालंकारत्वम् / प्रतीयमानार्थस्य वाच्योन्मुखत्वेन प्राधान्याभावाद्गर्भीकारस्तदन्तःकृतत्वम् / अत एवेति प्रतीयमानार्थस्य प्राधान्याभावात् / प्रसन्नत्वं वाच्यस्यैव प्राधान्येन निर्देशात् / गम्भीरत्वं प्रतीयमानस्याप्यर्थस्य गुणीभावेन गर्भीकारात्। यत्र च प्रतीयमानं प्रत्युपसर्जनीकृतवार्थयोः शब्दार्थयोरवस्थानं स ध्वनेविषय इति (ध्वनिविदः / यदाहुः–'तत्परावेव शब्दार्थौ यत्र व्यङ्ग्यप्रतिष्ठितौ / ध्वनेः स एव विषयः' इति / अत्र च न तथात्वमित्युक्तं नायं ध्वनेर्विषय इति / ) अत एव नामाप्यस्य यौगिकमित्याह-एवं चेत्यादि / सोत्प्राशपरत्वमिति / तथा च राज्ञो जगद्रक्षितव्यमस्य पुनरनुजमात्ररक्षणासिद्धेरन्यदेव नाममात्रेण राज 1. 'निराकारेण' ख. 2. 'विशेषः' ख. 3. 'तस्य' ख. 4. 'प्रतीयमानमनुपसर्जनीकृत्वा शब्दार्थयोः' ख. 5. कोष्ठकान्तःस्थितः पाठः क. पुस्तके नास्ति. 6. 'परमिति' क. 7. 'राज्ञा' क.
SR No.004394
Book TitleAlankarsarvasva
Original Sutra AuthorN/A
AuthorGirijaprasad Dvivedi
PublisherPandurang Javaji
Publication Year1939
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy