________________ 118 'काव्यमाला। नेति प्रतीतेः / यथा 'दना जुहोति' इत्यादौ दनि संचार्यते विधिः एवमियमुपमानुप्राणिता समासोक्तिरेव / इह तु पुनः 'नेरिवोत्पलैः पौर्मुखैरिव सरःश्रियः / पदे पदे विभान्ति स चक्रवाकैः स्तनैरिव // ' इत्यत्र सरः श्रियां नायिकात्वप्रतीतिर्न समासोक्त्या / विशेषणसाम्याभावात् / तस्मान्नायिकात्रोपमानत्वेन प्रतीयते न तु सरःश्रीधर्मत्वेन नायिकात्वप्रतीतिरित्येकदेशविवर्तिन्युपमैवाभ्युपगम्या। गत्यन्तरासंभवात् / यैस्तु नोक्ता तेषामप्युपसंख्येयैव / यत्र तु 'केशपाशालिवृन्देन' इत्यादौ समासोक्तायामुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोक्तिरेवेति न विरोधः कश्चित् / सा च समासोक्तिरर्थान्तरन्यासेन क्वचित्समर्थ्यगतत्वेन कचित्समर्थकगतत्वेन च भवति / क्रमेण यथा'अथोपगूढे शरदा शशाङ्के प्रावृड्ययौ शान्ततडित्कटाक्षा / कासां न सौभाग्यगुणोऽङ्गनानां नष्टः परिभ्रष्टपयोधराणाम् // ' 'असमाप्तजिगीषस्य स्त्रीचिन्ता का मनखिनः / अनाक्रम्य जगत्सर्वं नो संध्यां भजते रविः / / एतदेव शास्त्रान्तरप्रसिद्धदृष्टान्तमुखेन हृदयंगमीकरोति-यथेत्यादिना / अग्निहोत्रं जुहुयादित्यनेनोत्पत्तिविधिवाक्येन हि होमो विहितः / तस्य च पुनर्विधानमदग्धदहन्यायेन यावदप्राप्तं विधेर्विषय इत्यभ्युपगमान्न युज्यत इति तत्रायुक्तत्वादुपपदे दनि संचार्यत इत्यर्थः। उपमानुप्राणितेति। औपम्यगर्भविशेषणोत्थापितेत्यर्थः / समासोक्तिरेवेति / न पुनरेकदेशविवर्तिन्युपमा / गत्यन्तरमलंकारान्तरम् / यैरित्युद्भटादिभिः / यत्र वित्यादेर्ग्रन्थस्य पूर्वमेवास्माभिरभिप्राय 1. 'दधि' ख.