________________ अलंकारसर्वस्वम् / 'ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानानखक्षताभम् / प्रसादयन्ती सकलङ्कमिन्दं तापं रवेरभ्यधिकं चकार / ' इत्यत्रास्ति तावद्रविशशिनो यकत्वप्रतीतिः / न चात्र विशेषणसाम्यमिति सा कुतस्त्या / प्रसादयन्ती सकलङ्कमिन्दुमिति विशेषणसाम्याच्छरदो नायिकात्वप्रतीतौ तदानुगुण्यात्तयोः समासोक्त्या नायकत्वप्रतीतिरिति चेत् आर्द्रनखक्षताभमैन्द्रं धनुर्दधानेत्येतद्विशेषणं कथं साम्येन निर्दिष्टम् / न चैकदेशविवर्तिन्युपमोक्ता यत्सामर्थ्यान्नायकत्वप्रतीतिः स्यात् / तत्कथमत्र व्यवस्था / अत्रोच्यते-एकदेशविवर्तिन्युपमयदि प्रतिपदं नोक्ता तदा सा केन प्रतिषिद्धा / सामान्यलक्षणद्वारेणाा यातायास्तस्या अत्रापि संभवात् / अथात्र नोपमानत्वेन नायकत्वं स्वरूपेण प्रतीयते अपितु रविशशिनोरेव नायकव्यवहारप्रतीतिः / तयोरत्र नायकत्वात् / तदत्रार्द्रनखक्षताभमित्यत्र स्थितमपि श्रुत्योपमानत्वं वस्तुपर्यालोचनया ऐन्द्रे धनुपि संचारणीयम् / इन्द्रचापामं नखक्षतं दधा स्तावच्छब्दः / कुतस्त्येति / किमस्या निमित्तमिति भावः / तदानुगुण्यादिति शरदो नायिकात्वप्रतीत्यनुगुणत्वात् / तयोरिति रविशशिनोः / कथमिति / प्रकृतार्थाननुगुणत्वात्साम्यायोगात् / कथमत्र व्यवस्थेति / विशेषणसाम्यायोगात्समासोक्तेरप्राप्तेरेकदेशविवर्तिन्या उपमाया अनुक्तत्वात्। सामान्यलक्षणेति। उपमानोपमेययोः साधर्म्य भेदाभेदतुल्यत्वे उपमेति / एवमेकदेशविवर्युपमासामादेवात्र नायकत्वप्रतीतिरिति भावः / अथेति पक्षान्तरे। यदि चात्र पूर्वोक्तयुक्त्यैवानुगुण्याद्रविशशिनोः समासोक्तिमुखेन नायकत्वप्रतीतिस्तदाईनखक्षताभमिति विशेषणं कथं साम्येन योजयितुं शक्यमित्याशङ्कयाह-तदत्रेत्यादि / 1. 'तत्' क. 2. 'यद्यप्यत्रोपमानत्वेन' ख. 3. 'नायकत्वप्रतीतिः' ख, 4, 'अप्रकृतार्था' क.