________________ 116 'काव्यमाला। अत्र भरतादिशास्त्रप्रसिद्धवस्तुसमारोपः / तथा ह्यत्र गुणगणगतत्वेन शृङ्गारादिरसव्यवहारः प्रतीयते / यतो रसो न तात्पर्यशक्तिज्ञेयः / नाप्यनुमानविषयः / न शब्दैरभिधाव्यापारेण वाच्यीकृतः / न लक्षणागोचरः / किं तु विगलितवेद्यान्तरत्वेन परिहृतपारिमित्यो व्यञ्जनलक्षणापूर्वव्यापारविषयतोऽनुकार्यानुकर्तृगतत्वपरिहारेण सहदयगत इति प्रसपत्चात्परित्यादिपदै रस एव प्रतीयते / एवमन्यदपि ज्ञेयम् / 'पश्यन्ती त्रपयेव यत्र तिरयत्यात्मानमभ्यन्तरे ___ यत्र त्रुट्यति मध्यमापि मधुरध्वन्युजिघासारसात् / चाहूच्चारणचापलं विदधतां वाक्तत्र बाह्या कथं देव्या ते परया प्रभो सह रहः क्रीडादृढालिङ्गने।' अत्रागमप्रसिद्ध वस्तुनि लौकिकवस्तुव्यवहारसमारोपः / लौकिकवस्तुव्यवहारश्च रसादिभेदाहहुभेद इत्युक्तं प्राक् / तत्र शुद्धकार्यसमारोपे कार्यस्य विशेषणत्वमौपचारिकमाश्रित्य विशेषणसाम्यादिति लक्षणं पूर्वशास्त्रानुसारेण विहितं यथाकथंचिद्योज्यम् / इह तु चरं परमात्मखरूपं दर्शितम् / तद्यवहारसमारोपोऽत्र कृतः / न तात्पर्येति / यदुक्तम्-'नाभिधैवं न तात्पर्य लक्षणानुमितिर्न वा। ध्वन्यन्त वने शक्ता भेदेन विषयस्थितेः॥' इति / अनुकार्यो रामादिः। अनुकर्ता नटादिः। तद्गोचरश्च न रसः प्रतीयते / यदुक्तम्-'नानुकार्येऽपि रामादौ नटादौ नानुकर्तरि / रसः सचेतसां किं तु' इति / अन्यदिति / अन्यशास्त्रप्रसिद्धवस्तुसमारोपलक्षणम् / तदित्यं सप्रपञ्चां समासोक्ति प्रतिपाद्य पुनरपि सहृदयानां हृदयंगमीकर्तु ग्रन्थकृदेतत्प्रतीतिं विभागेन लक्ष्ये योजयति-इह त्वित्यादिना / अविप्रतिपत्तिद्योतनार्थ 1. 'बहुतर' ख.