________________ अलंकारसर्वस्वम् / 115 'सीमानं न जगाम यन्नयनयोर्नान्येन यत्संगत न स्पृष्टं वचसा कदाचिदपि यदृष्टोपमानं न यत् / अर्थादापतितं न यन्न च न यत्तत्किंचिदेणीदृशां / ___ लावण्यं जयति प्रमाणरहितं चेतश्चमत्कारकम् // अत्र लावण्ये लौकिके वस्तुनि मीमांसाशास्त्रप्रसिद्धवस्तुसमारोपः। एवं तर्कायुर्वेदज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपो बोद्धव्यः / 'खपक्षलीलाललितैरुपोढहेतौ सरे दर्शयतो विशेषम् / मानं निराकर्तुमशेषयूनां पिकस्य पाण्डित्यमखण्डमासीत् // ' अत्र तर्कशास्त्रप्रसिद्धवस्तुसमारोपः / पाण्डित्यशब्दः प्रकृते लक्षणया व्याख्येयः / 'मन्दममिमधुर्यमोपला दर्शितश्वयथु चाभवत्तमः / दृष्टयस्तिमिरज सिषेविरे दोषमोषधिपतेरसंनिधौ / ' अत्रायुर्वेदप्रसिद्धवस्तुसमारोपः। गण्डान्ते मददन्तिनां प्रहरतः मामण्डले वैधृते रक्षामाचरतः सदा विदधतो लाटेषु यात्रोत्सवम् / पूर्वामत्यजतः स्थितिं शुभकरीमासेव्यमानस्य ते वर्धन्ते विजयश्रियः किमिव न श्रेयखिनां मङ्गलम् / ' अत्र ज्योतिःशास्त्रप्रसिद्धवस्तुसमारोपः / 'प्रसर्पत्तात्पर्यैरपि सदनुमानैकरसिकै रपि ज्ञेयो नो यः परिमितगतित्वं परिजहत् / अपूर्वव्यापारो गुरुवरबुधैरित्यवसितो न वाच्यो नो लक्ष्यस्तैव सहृदयस्थो गुणगणः // ' 1. 'लडितैः' क. 2. 'व्याख्येयः / तथा' ख. 3. 'राज्ञा' ख. 4. 'तव हृदयसंस्थो' क.