________________ / काव्यमाला। क्षितिप खदिरः श्रोणीबिम्बाद्विकर्षति चांशुकं / मरुभुवि हठात्रस्यन्तीनां तवारिमृगीदृशाम् // .. अत्र पत्रावलीविलेखनादिशुद्धकार्यसमारोपात्खदिरस्य हठकामुकत्वप्रतीतिः / विशेषणसाम्येनोदाहृता / उभयमयत्वेन यथा... 'निळूनान्यलकानि पाटितमुरः कृत्स्नोऽधरः खण्डितः कणे रुग्जनिता कृतं च नयने नीलाब्जकान्ते क्षतम् / यान्तीनामतिसंभ्रमाकुलपदन्यासं मरौ नीरसैः किं किं कण्टकिभिः कृतं न तरुमिस्त्वद्वैरिवामभ्रुवाम् // ' अत्र नीरसैः कण्टकिभिरिति विशेषणसीम्यम् / निनान्यलकानीत्यादिषु कार्यसमारोपः / व्यवहारसमारोपप्रकारचतुष्टये क्रमेणोदाह. रणम् / यथा'घामालिलिङ्ग मुखमाशु दिशां चुचुम्ब रुद्धाम्बरां शशिकलामलिखत्करात्रैः / अन्तर्निममचरपुष्पशरोऽतितापा किं किं चकार तरुणो न यदीक्षणामिः // ' लौकिकं च वस्तु रसादिभेदान्नानाभेदं खयमेवोत्प्रेक्ष्यम् / 'यैरेकरूपमखिलाखपि वृत्तिषु त्वां ___ पश्यद्भिरव्ययमसंख्यतया प्रवृत्तम् / लोपः कृतः किल परत्वजुषो विभक्ते स्तैर्लक्षणं तव कृतं ध्रुवमेव मन्ये // ' अत्रागमशास्त्रप्रेसिद्धे वस्तुनि व्याकरणप्रसिद्धवस्तुसमारोपः / 1. 'नीरसे' ख. 2. 'साम्यात्' ख. 3. इत्यादिभिश्च' ख.४. 'तत्क्षणम्' ख, 5. 'वृत्ते' ख.