________________ अलंकारसर्वस्वम् / क्तिबुद्धिः कार्या / तदेवं श्लिष्टविशेषणसमुत्थापितैका / साधारणविशेषणसमुत्थापिता तु धर्मकार्यसमारोपाभ्यां द्विभेदा / औपम्यगर्भविशेषणसमुत्थापितोपमा संकरसमासाभ्यां द्विभेदा / रूपकासमाश्रयेण तु भेदद्वयमस्या न विषयः / तदेवं पञ्चप्रकारा समासोक्तिः। इयं च शुद्धकार्यसमारोपेण विशेषणसाम्येनोभयमयत्वेन प्रथमं त्रिधा समासोक्तिः / विशेषणसाम्यं च पञ्चप्रकारं निर्णीतम् / सर्वत्र चात्र व्यवहारसमारोप एव जीवितम् / स च लौकिके वस्तुनि लौकिकवस्तुव्यवहारसमारोपः / शास्त्रीये वस्तुनि शास्त्रीयवस्तुव्यवहारसमारोपः / लौकिके वा शास्त्रीयवस्तुव्यवहारसमारोपः / शास्त्रीये वा लौकिकव. स्तुव्यवहारसमारोप इति चतुर्धा भवति / तदेवं बहुप्रकारा समासोक्तिः / तत्र शुद्धकार्यसमारोपेण यथा'विलिखति कुंचावुच्चैर्गाढं करोति कचग्रह लिखति ललिते वक्रे पत्रावलीमसमञ्जसाम् / चैवमादावुपमारूपकयोः संदेहसंकरो न्याय्यः / तस्यालंकारसारकारादिभिर्निराकृतत्वात्। समासोक्तिलक्षणावसरे किं रूपकनिरूपणेनेत्याशङ्कयाह-अस्या इत्यादि / / अस्याश्च यथोपपादितान्भेदान्संकलयति-तदेवमित्यादिना / भेदद्वयमिति साक्षात्संदिह्यमानत्वेन वा। न विषय इति / यथोक्तोपपत्ते रूपक एव विश्रान्तेः / प्रथममिति / एतद्भेदत्रयमस्या मूलभूतमित्यर्थः / उक्तं पुनः प्रकारपञ्चकमस्या अवान्तरभेदरूपम् / विशेषणसाम्यस्यैतद्भेदत्वात् / यद्यपि शुद्धकार्यसमारोपेऽपि विशेषणसाम्यमेवास्ति तथाप्यत्र शुद्ध एव कार्यसमारोप उदिक्ततया प्रतीयत इति तस्य पृथग्भेदत्वमुक्तम् / सर्वत्रेति भेदसप्तके / बहुप्रकारेति / लौकिकादीनां व्यवहाराणामानन्त्यात् / उदाहृतमिति उपोढरागेणेत्यादिना / क्रमेणेति यथोद्देशम् / मीमांसेत्यत्रोत्तरमीमांसा विवक्षिता / तत्र हि निखिलप्रमाणागो१. 'इत्थं शुद्ध' क. 2. 'कुचान्' ख. 3. 'बहुप्रपञ्चेति' ख. 8 अ० स०