________________ 112 काव्यमाला। कुटिललिपिभिः 'कं कायस्थं न नाम विसूत्रय.. व्यंधित विरहिप्राणेष्वायव्ययावधिकं मधुः / / ' ... अत्र हि पत्रलिपिकायस्थशब्देषु श्लेषगर्भ रूपकं द्विरेफमधीलवैरित्येतद्रूपकनिमित्तम् / अस्य च प्रचुरः प्रयोगविषय इति न समासो भिः / अयि सायमिमाः पयोधरैः स्फुटरागाश्चलतारका दिशः // ' अत्र 'स्फुटसंध्यातपकुङ्कुमैः' इति पाठे संध्यातपकुखमैरित्यौपम्यगर्भ विशेषणम् / साधारण्यसहचरितं यथा-'तन्वी मनोरमा बाला लोलाक्षी स्तबकस्तनी। विकासमेति सुभग भवद्दर्शनमात्रतः // ' अत्र स्तबकस्तनीत्यौपम्यगर्भ विशेषणम् / शुद्धकार्यसमारोपसहचरितं यथा--'समारुरोहोपरिपादपानां लुलोठ पुष्पोत्कररेणुपुञ्ज / लताप्रसूनाशुकमाचकर्ष क्रीडन्वैने किं न चकार चैत्रः // ' अत्र प्रसूनांशुकमित्यौपम्यगर्भविशेषणम् / केवलत्वं पुनरेतेषामेकदेशविवर्तिन्युपमैव यथा-'बभौ लोलाधरद. लस्फुरद्दशनकेसरम् / भ्रूविलासालिवलयं ललितं ललनामुखम् // ' अत्र लेलितत्वमुपमासाधकम् / समासान्तराश्रयात्समानविशेषणत्वं भवदपि नात्र समासोक्तेः प्रयोजकम् / एकदेशविवर्युपमामुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् / एवं दन्तप्रमेयादावपि ज्ञेयम् / दन्तप्रभाः पुष्पाणीवेत्येवसमासे कृते उपमानभूताया लतायाः प्रतीतिसिद्धेः समासान्तराश्रयेणागतायास्तत्प्रतीतेर्व्यर्थत्वात् / अप्रकृतागूरणे हि कवेः संरम्भः तच्चानयैव सिद्धमिति किं समासोक्त्या / चिरंतनानुरोधात्पुनरत्र ग्रन्थकृता समासोक्तिरुका / यत्तु 'यत्र समासोक्तावुपमायां समासान्तरेण विशेषणसाम्यं योजयितुं शक्यं तत्रौपम्यगर्भविशेषणप्रभाविता समासोति रुका' इति वक्ष्यति तदपि चिरंतनानुरोधपरमेव / अन्यथा हि समानन्यायत्वादेकदेशविवर्तिनि रूपकेऽपि यत्र समानविशेषणत्वं योजयितुं शक्यं तत्रापि समासोक्तिरिति किं नोक्तम् / यत्तु नोकं तद्युक्तम् / रूपकमाहात्म्यात्प्रथममेव तत्प्रतीतिसिद्धेरनन्तरं समासोक्तिमुवेनाप्रकृतप्रतीतेवैयर्थ्यात् / 'आहादिचन्द्रवदना स्फुरत्तारकमौक्तिका / घनान्धकारधम्मिल्ला राजते गगनस्थली // ' इत्यादौ पुनरुपमायाः साधकाभावादेकदेशविवर्ति रूपकमेवेति न समासोक्तिभ्रमः कार्यः / न 1. 'किं कायस्थैः' ख. 2. 'व्यथित' ख. 3. शनैः' क. 4. 'केवलत्वे पुनरेकदेशविवर्तिन्युपमा यथा' क. 5. 'वलितत्वं' क. 6. 'समासोक्तायां' क. ..