________________ अलंकारसर्वस्वम् / 111 समासान्तराश्रयणात्समानविशेषणत्वं भवदपि न समासोक्तेः प्रयोजकम् / एकदेशविवर्तिरूपकमुखेनैवार्थान्तरप्रतीतेस्तस्या वैयर्थ्यात् / न च पूर्वदर्शितोपमासंकरविषये एष न्यायः / उपमासंकरयोरेकदेशविवर्तिनोरभावात् / तच्चैकदेशविवर्तिरूपकमश्लेषेण श्लेषेण च भवतीति द्विविधम् / अश्लिष्टं यथा 'निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः। धारानिपातैः सह किं नु वान्तश्चन्द्रोऽयमित्याततरं ररास // ' अत्र निरीक्षणानुगुण्याद्विद्युन्नयनैरिति रूपके पयोदस्य द्रष्टुपुरुषनिरूपणमार्ततरं ररासेत्यत्र प्रतीयमानोत्प्रेक्षाया निमित्तत्वं भजते / श्लिष्टं यथा'मदनगणनास्थाने लेख्यप्रपञ्चमुदश्चय न्निव किल बृहत्पत्रन्यस्तद्विरेफमषीलवैः / एतच्च साक्षादपि रूपकगर्भे समासे योज्यम् / समानन्यायत्वात् / यद्येवं तर्जुपमासमाश्रयेऽप्येकदेशविवर्युपभामुखेनैवार्थान्तरप्रतीतेः किं नैतद्भवतीत्याशङ्कयाहन चेत्यादि / एष इति रूपकोक्तः / अभावादिति उद्भटमतेन / यदाहुः–'नच रुद्रटस्येवोद्भटस्यैकदेशविवर्तिरूपकवदुपमासंकरावेकदेशिनौ स्तः।' अतश्चैतत्तन्मताभिप्रायेणोक्तम् / ग्रन्थकृन्मते हि वक्ष्यमाणनीत्या तयोः संभवः / ननु यदि तयोर्ग्रन्थकृन्मते संभवस्तदौपम्यगर्भविशेषणोत्थापितः समासोक्तिप्रकारस्तर्हि न संभवति / तस्यैकदेशविवर्तिरूपकवदेकदेशविवर्तिभ्यामुपमासंकराभ्यामेवार्थान्तरप्रतीतिसिद्धेवैयर्थ्यात् / नैतत् / यतोऽस्त्येव तावदौपम्यगर्भविशेषणहेतुकत्वं समासोक्तेः / किं त्वेतदन्यभेदसहचरितमेवास्या निमित्ततां भजते न पुनः केवलम् / तथात्वे हि विशेषणानामौम्यगर्भत्वे एकदेशविवर्तिन्या उपमायाः प्राप्तिः / तत्र लिष्टत्वसहचरितमेतद्यथा-'परिपिञ्जरितासिताम्बरैर्निबिडैः कं न हरन्ति हारि 1. 'वैयर्थ्यम्' ख. 2. 'रूपकम्' ख. 3. 'रीत्या' ख. 4. 'अन्यस्यापि' ख. 5. 'आरोपस्य गर्भत्वे' ख. 6. 'श्लिष्टेन सह' ख.