________________ कामगार 110 काव्यमाला। - अत्र तन्वीत्यादिविशेषणसाम्याल्लोलाक्ष्या लताव्यवहारप्रतीतिः / तत्र च लतैकगामिविकासाख्यधर्मसमारोपः कारणम् / अन्यथा विशेषणसाम्यमात्रेण नियतलताव्यवहारस्याप्रतीतेः / विकासश्च प्रकृते उपचरितो ज्ञेयः / एवं च कार्यसमारोपेऽपि ज्ञेया / इयं च समासोक्तिः पूर्वापेक्षया अस्पष्टा / औपम्यगर्मत्वेन यथा 'दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी। केशपाशालिवृन्देव सुवेषा हरिणेक्षणा // अत्र दन्तप्रभा पुष्पाणीवेति सुवेषत्ववशादुपमागर्भत्वेन च कृते समासे पश्चाहन्तप्रभासदृशैः पुष्पैश्चितेति समासान्तराश्रयणेन समानविशेषणमाहाम्याल्लताव्यवहारप्रतीतिः / अत्रैव 'परीता हरिणेक्षणा' इति पाठे उपमारूपकसाधकबाधकामावासकरसमाश्रयेण कृते योजने पश्चात्पूर्ववत्समासान्तरमहिना लताप्रतीतिज्ञेया / रूपकगर्भत्वेन तु यति एवमित्यादिना / तदेवं साधारण्येन समासोक्तेर्विशेषणसाम्ये सत्यप्यप्रकृतसंबन्धि धर्मकार्यसमारोपमन्तरेण तद्व्यवहारप्रतीतिर्न भवतीति सिद्धम् / सुवेषस्वं प्रकृतार्थ एवानुगुणमित्युपमायाः साधकम् अतश्च तत्समाश्रयः / समासान्तराश्रयणेनेति / यद्यप्यत्रोपमासमास एव स्थितस्तथाप्युपमानोपमेययोयत्ययादेव समासान्तरत्वमुक्तम् / पूर्वापेक्षयास्यान्यथात्वात् / अत्रैवेति दन्तप्रमेत्यादौ / उपमारूपकसाधकबाधकामावादिति / परीतत्वस्य हि प्रकृताप्रकृतयोस्तथा नानुगुण्यमिति साधकत्वाभावः / तथा च न विगुणत्वमिति बाधकत्वाभावः / अतश्चैकपक्षाश्रयाभावादुपमारूपकयोः संदेहसंकरः / तस्य समाश्रय उभयसमासग्रहणम् / तच्चैकस्मिन्नेव वाक्ये न संभवतीति कामचारेण तयोर्ग्रह णम् / संकरसमाश्रयेणाप्युपमासमासयोजने कृते यद्वदयमेवालंकारस्तद्वद्रूपकस. मासयोजनेऽपि किमयमेव किमुतालंकारान्तरमित्याशझ्याह-रूपकेत्यादि / 1. 'नियतस्य' ख. 2. 'ज्ञेयम्' क. 3. 'संकराश्रयेण' क..