________________ अलंकारसर्वखम् / तीयमानमप्रस्तुतं प्रस्तुतावच्छेदकत्वेन प्रतीयते / अवच्छेदकत्वं च व्यवहारसमारोपो न तु रूपसमारोपः / रूपसमारोपे त्ववच्छादितत्वेन प्रकृतस्य तद्रूपरूपित्वाद्रूपकमेव / ततश्च विशेषणसाम्यं श्लिष्टतया साधारण्येनौपम्यगर्भत्वेन च भावात्रिधा भवति / तत्र लिष्टतया यथा'उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम् / यथा समस्तं तिमिरांशुकं तया पुरोऽपि रागाद्गलितं न लक्षितम्।।' अत्र निशाशशिनोः श्लिष्टविशेषणमहिम्ना ना यकव्यवहारप्रतिपत्तिः। अपरित्यक्तखरूपयोर्निशाशशिनो यकनायिकाख्यधर्मविशिष्टयोः प्रतीतेः / साधारण्येन यथा- . 'तन्वी मनोरमा बाला लोलाक्षी पुष्पहासिनी / विकासमेति सुभग भवदर्शनमात्रतः // प्रस्तुतावच्छेदकत्वेनेति / अत एवाप्रस्तुतस्य गम्यत्वे इति सूत्रितम् / एवं समासोक्तो व्यवहारसमारोपादप्रस्तुतेन प्रस्तुतस्य वैशिष्ट्यलक्षणमवच्छेदकत्वं विधीयते / रूपके तु रूपसमारोपाद्रूपरूपितत्वाख्यमाच्छादकत्वमित्यनयोर्भेदः / तेन विशेषणानां साम्यादप्रस्तुतधर्मावच्छेद इत्यपास्यास्मल्लक्षणानुगुण्येनैव विशेष. णसाम्यादप्रस्तुतावच्छेदः समासोक्तिरित्येव सूत्रणीयम् / अतिशयोक्त्याशङ्का पुनरत्र निष्प्रमाणिकैव / विषयस्योपादानाद्विषयिणश्चानुपादानात् / तदिति अप्र. स्तुतस्य गम्यत्वे निमित्तम् / तत्रेति निर्धारणे / नायकेति सरूपयोरेकशेषः / अपरित्यक्तस्वरूपयोरिति / रूपरूपितत्वे हि परित्यक्तं खखरूपं स्यात् / अत्रेति लताव्यवहारप्रतीतौ / ननु यदि लतैकगाम्येव विकासाख्यो धर्मस्तस्कथं प्रकृते संगच्छत इत्याशङ्याह-विकास इत्यादि / एतदेवान्यत्रापि योज 1. 'प्रस्तुतस्य' ख. 2. 'अवच्छेदकत्वाच्च' क. 3. 'अपरित्यक्तयोः' क. 4. 'शशिनो यकताख्यधर्म' क. 5. 'एव प्रस्तुतस्य' क-ख. 6. 'तत्रेति क.