________________ 108 काव्यमाला। इह प्रस्तुताप्रस्तुतानां कचिद्वाच्यत्वं क्वचिद्गम्यत्वमिति द्वैविध्यम्। वाच्यत्वं च श्लेषनिर्देशभङ्ग्या पृथगुपादानेन वेत्यपि द्वैविध्यम् / एतविमेदमपि श्लेषालंकारस्य विषयः / गम्यत्वं तु प्रस्तुतनिष्ठमप्रस्तुतप्रशंसाविषयः अप्रस्तुतनिष्ठं तु समासोक्तिविषयः। तत्र च निमित्तं विशेषणसाम्यम् / विशेष्यस्यापि साम्ये श्लेषप्राप्तेः / विशेषणसाम्याद्धि प्र. श्चालंकारान्तरेभ्यो विभागं दर्शयितुमुपक्रमते-इहेत्यादिना / वाच्यत्वं चात्र द्वयोः प्रस्तुतयोरप्रस्तुयोः प्रस्तुताप्रस्तुतयोश्च भवति / गम्यत्वं पुनः क्वचित्प्रस्तुतस्य क्वचिच्चाप्रस्तुतस्य / प्रस्तुताप्रस्तुतयोस्तु न भवति / ताद्रूप्येण वस्तुसद्भावाभावात् / श्लेषनिर्देशभङ्गयेति। प्रस्तुतयोरप्रस्तुतयोश्च / पृथगुपादानेनेति / प्रस्तुतयोरप्रस्तुतयोः प्रस्तुताप्रस्तुतयोश्चैतदिति वाच्यम् / अत्र चाप्रस्तुतस्य किंहेतुकं गम्यत्वमित्याशयाह-तत्र चेत्यादि / तत्रेत्यप्रस्तुतस्य गम्यत्वे / विशेषणानां चात्र बहुत्वमेव विवक्षितमिति न वाच्यम् / श्वसनविषमा रात्रिोत्स्ना तरङ्गितविभ्रमा शशिमणिभुवो बाष्पायन्ते निमीलति पद्मिनी / उपचिततमोमोहा भूमिळनक्ति विवर्णतां तदिति गहने दर्श दर्श कथं सखि जीव्यते // ' इत्यत्र विशेषणबहुत्वाभावेऽपि समासोक्तेः सद्भावात् / अतश्च विशेषणानां साम्यादिति न सूत्रणीयम् / अबहुत्वे तस्याव्याप्तेः / विशेषणसाम्यमपि कस्मादत्र हेतुत्वं भजत इत्याशसाह-विशेषणेत्यादि।अप्रस्तुतमिति न पुनरप्रस्तुतधर्मा एव। नान्यधर्मिसंबन्धिनो धर्माःखधर्मिणमन्तरेणान्यत्रावतिष्ठन्ते। नयनायके नायकधर्माणामन्वयो युज्यते / अन्यधर्माणामन्यत्रान्वयासंभवात् / अत एवान्यरोप्यमाणोऽन्यव्यवहारोऽन्यत्र न संभवतीति तदविनाभावात्खव्यवहारिणमाक्षिपतीत्याक्षिप्यमाणेनाप्रस्तुतेन धर्मिणैव प्रस्तुतो धर्म्यवच्छिद्यते न पुनराच्छाद्यते / तथात्वे ह्यप्रस्तुतेन प्रस्तुतस्य रूपरूपितत्वाद्रूपसमारोपः स्यान्न व्यवहारसमारोपः / अत एवाह 1. 'द्वैधम्' क. 2. विषयम्' क. 3. 'समासोक्तेगोचरम्' क. 4. 'बाहुल्य. मेव' ख. 5. 'विशेषणासद्भावेऽपि' ख. 6. 'धर्माणां च ख. 7. 'न्वयासगावात' ख. 7. 'संभवेदिति' क. 9. 'आच्छिद्यते' ख. .