________________ अलंकारसर्वस्वम् / 'निरर्थकं जन्म गतं नलिन्या यया न दृष्टं तुहिनांशुबिम्बम् / उत्पत्तिरिन्दोरपि निष्फलैव न येन दृष्टा नलिनी प्रबुद्धा // .. इत्यादौ विनोक्तिरेव / तुहिनांशुदर्शनं विना नलिनीजन्मनोऽशोभनत्वप्रतीतेः / इयं च परस्परविनोक्तिभझ्या चमत्कारातिशयकृत् / यथोदाहृते विषये द्वितीया यथा 'मृगलोचनया विना विचित्रव्यवहारप्रतिभाप्रभाप्रगल्भः / अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः // ' अत्राशोभनत्वाभावः शोभनपदार्थप्रक्षेपभङ्ग्योक्तः / सैषा द्विधा विनोक्तिः। अधुना विशेषणविच्छित्त्याश्रयेणालंकारद्वयमुच्यते / तत्रादौ विशेषणसाम्यावष्टम्भेन समासोक्तिमाहविशेषणानां साम्यादप्रस्तुतस्य गम्यत्वे समासोक्तिः। यथा सहशब्दं विनापि सहार्थे तृतीयास्ति तथा विनाशब्दं विनापि द्वितीयादीनां विनार्थ सद्भावोऽस्ति / तथापि वाक्यार्थपालोचनासामर्थ्यात्तदर्थः पर्यवस्यतीत्यस्य भावः / सहशब्दं विनापि सहार्थविवक्षा यथा-विवृण्वता सौरभरोरेंदोषं बन्दिव्रतं वर्णगुणैः स्पृशन्त्या / विकखरे कस्य न कर्णिकारे घ्राणेन दृष्टेर्ववृधे विवादः॥' अत्र घ्राणेन सहेति तत्प्रयोगं विना तत्प्रतीतावेव विश्रान्तेः / एवं चेति। यस्माद्विनाशब्दं विनापि तदर्थविवक्षा भवतीत्यर्थः / यथोदाहृत इति निरर्थकमित्यादौ / यथा वा-'हंसाण सरेहि विणा सराण सोहा विणा ण हंसेहिं / अण्णोण्णं चिअ एए अप्पाणं णवर गरुएंति // ' द्वितीयेति शोभनत्वनिबन्धनोक्तिः / तत्रेयलंकारद्वयमध्यात् / आदाविति प्रधानतया / अस्या हि विशेषणमात्रावष्टम्भात्परिकराविशेषणसाम्यावष्टम्भत्वेन विशिष्टत्वम् / विशेषणेत्यादि / अस्या 1. 'बाह्यार्थ' ख. 2. 'लोभ' क. रोष' ख.रोरशब्दो दारिद्यवाचकः, श्रीकण्ठचरितस्थमिदं पद्यम्. 3. 'तत्प्रतीतेरविश्रान्तेः' ख. 4. 'वष्टम्भत्वे श्लिष्टत्वम्' ख.