________________ 106 - काव्यमाला। - सत्त्वस्य शोभनत्वस्य भावः शोभनत्वम् / एवमसत्त्वस्याशोभनत्वस्य भावोऽशोभनत्वम् / ते द्वे सत्वासत्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा विनोक्तिः / अत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेनाभिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् / एवं च तदन्यनिवृत्तौ विधिरेव प्रकाशितो भवति / आद्या यथा विनयेन विना का श्रीः का निशा शशिना विना / रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता // ' अत्र विनयाद्यसंनिधिप्रयुक्तश्नीविरहाद्यभिमानमुखेनाशोभनत्वमुक्तम् / अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथंचिन्निमित्तीमवति / यथा सहोक्तौ सहार्थविवक्षा / एवं च स्येति / ननु चात्र सत्त्वासत्त्वयोर्विधिमुखेनैव वाच्यत्वे किमिति . प्रतीतिवैषम्यदायिना निषेधमुखेन निर्देशः कृत इत्याशङ्याह-अत्र चेत्यादि / तच्छब्देन सत्वासत्त्वयोः प्रत्यवमर्षः / अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिख्यापनेनापि किं भवतीत्याशङ्कयाह-एवं चेत्यादि / अन्यस्य कस्यचिदनिवृत्तौ सत्त्वमसत्त्वमेव वा भवतीत्यर्थः / आयेति असत्त्वनिंबन्धनोक्तिः / का श्रीन काचिच्छ्रीरिति श्रियो विरहोऽसद्भावः / विनयासद्भावेऽपि श्रियोऽसद्भावोऽस्तीत्येतदभिधानं श्रियोऽसत्त्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं श्रियोऽसत्त्वमुक्तम् / एवं विनयस्यानिवृत्तौ श्रियः सत्त्व एव विधिः प्रकाशितो भवतीति विनय एव भरबन्धः कार्यः / एवमन्यत्रापि ज्ञेयम् / अन्ये चात्र वास्तवत्वं मन्यमानाः 'तस्याः शैत्यं विना ज्योत्स्ना पुष्पर्द्धिः सौरभं विना / विनोष्ण्यत्वं च हुतभुक्त्वां विनां प्रतिभासते // ' इत्यत्र विनोक्त्यलंकारत्वमाहुः / अत्र हि ज्योत्स्नादीना शैत्यादिना नित्यमविनाभावेऽपि विनाभाव उपनिबद्धः / यदाहालंकारभाष्यकार:-"नित्य: संबद्धानामसंबन्धवचनं विनोक्तिः' इति विनोक्तिरुपसंख्यास्यते” इति / ग्रन्थकृता पुनरियं चिरंतनलक्षितत्वाल्लक्षिता / यथाकथंचिदिति / यद्यपि 1. 'तदनिवृत्तौ' क. 2. 'विरहसद्भावः' क. 3