________________ अलंकारसर्वखम्। 105 तदन्यथारूपा यथा-'कुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथुनानि / ' अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् / एतद्विशेषणपरिहारेण सहोक्तिमात्रं नालंकारः। यथा-'अनेन साचं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इत्यादौ / एतान्येव कर्तृसाहित्ये उदाहरणानि / कर्मसाहित्ये यथा धुजनो मृत्युना सार्धं यस्याजौ तारकामये / ___ चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः // ' अत्र करोतिक्रियापेक्षया युजनस्य मृत्योश्च कर्मत्वम् / एषा च मालयापि भवन्ती दृश्यते / यथा'उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं भूपानां जनकस्य संशयधिया साकं समास्फालितम् / वैदेहा मनसा समं च सहसाकृष्टं ततो भार्गव प्रौढाहंकृतिकन्दलेन च समं तद्भममैशं धनुः // ' सहोक्तिप्रतिभटभूतां विनोक्ति लक्षयतिविना कंचिदन्यस्य सदसत्त्वाभावो विनोक्तिः। त्तिरिति क्रमिकयोः समकालत्वम् / अस्याश्च शुद्धसामान्यरूपत्वं यथा-'मलआणिलेण सह सोरह वासिएण दइआणं / वढुति बहलसोमालपरिमला सासणिउउरंबा // ' अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वम् / बिम्बप्रतिबिम्बभावों यथा--'दिनअरअरणिउरंबा कणआअलकडअरेणुविप्फुरिआ। विअसंति परिमलभरोब्भडेहि कमलाकरेहि समं // ' अत्र कनकाचलकटकरेणुविच्छुरितत्वस्य परिमलभरोद्भटत्वं बिम्बप्रतिबिम्बत्वेन निर्दिष्टम् / प्रतिभटभूतामिति प्रतिपक्षभूताम् / अत एवैतदनन्तरमेतल्लक्षणम् / तदेवाह-विना कंचिदित्यादि / एतदेव व्याचष्टे-सत्त्वस्येत्यादिना / कस्यचिदिति यत्र यादृशो विवक्षित[स्त] 1 'सह' क. 2 'भग्नं तदैशं' ख. 3. 'दर्शयति' क. 4 'किंचित' क. .