________________ 104 .. काव्यमाला। वस्तुतस्तु विपर्ययोऽपि स्यात् / तत्र नियमेनातिशयोक्तिमूलत्वमस्याः। सा च कार्यकारणप्रतिनियमविपर्ययरूपा अभेदाध्यवसायरूपा च / अभेदाध्यवसायश्च श्लेषभित्तिकोऽन्यथा वा / साहित्यं चात्र कादिनानाभेदं ज्ञेयम् / तत्र च कार्यकारणप्रतिनियमविपर्ययरूपा यथा'भवदपराधैः साध संतापो वर्धतेतरामस्याः।' अत्रापराधानां संताप प्रति हेतुत्वेऽपि तुल्यकालत्वेनोपनिबन्धः / श्लेषभित्तिकाभेदाध्यवसायरूपा यथा- 'अस्तं भाखान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि / ' अत्रास्तं गमनं श्लिष्टम् / अस्तमित्यस्योभयार्थत्वात् / विपर्यय इति / प्रधानविभक्त्या निर्दिष्टस्याप्राधान्यं गुणविभक्त्या च निर्दिष्टस्य प्राधान्यम्। नियमेनेति / अनेनातिशयोक्त्यनुप्राणनमन्तरेणालंकारत्वमेवास्या न भवतीति ध्वनितम्। सेत्यतिशयोक्तिः / कार्यकारणयोः प्रति नियमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः / (अथ च कार्यकारणवत्प्रतिनियमस्य क्रमस्य विपर्ययस्तुल्यकालत्वादिनोक्तेः।) अन्यथेत्यश्लेषरूपः। तदेवमस्या अतिशयोक्तिभेदचतुष्टयमनुप्राणकम्। कर्नादीति आदिशब्दात्कर्मादयः। तत्रेति निर्धारणे / अस्यामनुप्राणकत्वेन स्थितेति शेषः / अत्रापराधानां शाब्दो गुणभावः। वस्तुतस्तु प्राधान्यं तेषामेव / प्रतिपाद्यत्वात् / एवमन्यत्र ज्ञेयम् / 'क्षयमेति सा वराकी स्नेहेन समं त्वदीयेन' इत्यस्यार्धम् / 'कुर्वन्त्वाप्ता हतानां रणशिरसि जना वहिसाद्देहभारानश्रून्मित्रं कथंचिद्ददतु जलममी बान्धवा बान्धवेभ्यः। मार्गन्तो ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रककैः' इत्यस्याद्य पादत्रयम् / 'सह कमलैर्ललनानां मानः संकोचमायाति' इत्यस्यार्धम् / एतद्विशेषणपरिहारेणेति अतिशयोक्त्यनुप्राणनमन्तरेण / 'द्वीपान्तरानीतलवङ्गपुपैरपाकृतखेदलवा मरुद्भिः' इति द्वितीयमर्धम् / एतानीति समनन्तरोक्तानि / यमापेक्षया धुजनस्यानन्तरमाप्तमनोरथत्वमित्यादि पश्चाद्भावेन क्रमिकयोस्तुल्यकालत्वेनोक्तिः / यथा वा-'भाग्यैः समं समुत्पन्न प्रजाभिः सह लालितम् / वर्धितं सुकृतैः सार्धमोराजमसूत सा // ' अत्र समुत्पत्त्यनन्तरं तद्भाग्यानामुत्प 1. 'सह' क. 2. 'कर्णराज' ख.