________________ 'अलंकारसर्वस्वम् / 103 उपमानोपमेययोरेकस्य प्राधान्यनिर्देशेऽपरस्य सहाथसंबन्धे सहोक्तिः। भेदप्राधान्य इत्येव / गुणप्रधानभावनिमित्तकमत्र भेदप्राधान्यम् / सहार्थप्रयुक्तश्च गुणप्रधानभावः / उपमानोपमेयत्वं चात्र वैवक्षिकम् / द्वयोरपि प्राकरणिकत्वादप्राकरणिकत्वाद्वा सहार्थसामर्थ्याद्धि तयोस्तु. त्यकक्षत्वम् / तत्र तृतीयान्तस्य नियमेन गुणत्वादुपमानत्वम् / अर्थाच परिशिष्टस्य प्रधानत्वादुपमेयत्वम् / शाब्दश्चात्र गुणप्रधानभावः / प्रकृतार्थोपरञ्जकत्वे हि सर्वथा कवेः संरम्भः / तच्चाधिकगुणमुखेन भववितरथा वा को विशेषः / तस्माद्युक्तमेव विपर्यये वेति सूत्रितम् / प्रत्युत प्रतिकूलत्वं वेति सूत्रितमयुक्तम् / उपमानादुपमेयस्याधिक्ये इत्येतावतैव लक्षणेनास्य व्याप्तत्वात् / यतः 'खरेण तस्या अमृतस्रुतेव' इत्यादावन्यपुष्टालापस्य प्रतिकूलत्वोक्तेः कर्णकटुकत्वादिना न्यूनत्वावगतरुपमेयभूताया भगवत्याः संबन्धिनः खरस्यामृतस्रतेवेत्यभिधानादानन्दातिशयदायित्वादेश्चाधिक्यमेवावगम्यत इत्यलं बहुना / अस्यापि सादृश्याश्रयत्वात्सामान्यस्य त्रयी गतिः। तत्रानुगामिता यथा-'नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैल्यात्कदलीविशेषाः। लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वोरुपमानबाह्याः // ' अत्र परिणाहिरूपत्वस्यानुगामित्वम् / वस्तुप्रतिवस्तुभावे पुनर्ग्रन्थकृतेवोदाहृतम् / दिदृक्षव इत्यादि / अत्र मनोहरत्वरम्यत्वयोः शुद्धसामान्यरूपत्वम् / पक्ष्मलताविलासविकखरयोश्च बिम्बप्रतिबिम्बभावः / उपमानेत्यादि / किं हेतुकं चात्र भेदप्राधान्यमित्याशङ्कयाहगुणेत्यादि / गुणप्रधानभावोऽपि किं हेतुक इत्याह-सहार्थत्यादि / एकस्य प्रधानभूतविभक्तिनिर्देशादन्यस्य च विधिविभक्तिनिर्देशात् / वैवक्षिकमिति न पुनर्वास्तवम् / उपमानोपमेयत्वं हि द्वयोस्तुल्यकक्षत्वे भवति तच्चात्र किं निमित्तकमित्याशङ्कयाह-सहाथैत्यादि / परिशिष्टस्येति प्रथमान्तस्य / शाब्द इति न पुनरार्थः / वस्तुतो विपर्ययस्यापि संभवात् / एवं गुणप्रधानभावनिमित्तकं भेदप्राधान्यमपि शाब्दमेवात्र ज्ञेयम् / वस्तुतो हि सादृश्यस्यैव पर्यवसानाद्भेदाभेदयो स्तुल्यत्वेनैव प्रतीतिः / तस्माच्छाब्दमेव भेदप्राधान्यमाश्रित्येहास्या वचनम् / 1. 'संबन्धः' क. 2. 'गुणभावात्' ख. 3. 'आश्चर्यपरिशिष्टस्य' ख.