________________ .. - काव्यमाला। 'दिदृक्षवः पक्ष्मलताविलासमक्ष्णां सहस्रस्य मनोहरं ते / वापीषु नीलोत्पलिनीविकासरम्यासु नन्दन्ति न षट्पदौघाः॥' 'क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् / . विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु // ' अत्र विकखरनीलोत्पलिन्यपेक्षया अक्षिसहस्रस्य पक्ष्मलताया अधिकगुणत्वम् / चन्द्रापेक्षया च यौवनस्य न्यूनगुणत्वम् / शशिवलक्षण्येन तस्यापुनरागमात् / इत्यादि / अधुनेति प्राप्तावसरम् / भेदस्य चात्र प्राधान्यादभेदस्य वस्तुतः सद्भावः / सादृश्य एव पर्यवसानात् / अत एव सादृश्यव्यतिरेकेण संभवन्नपि भेदो नास्य विषयः। यथा-'दिव्योत्तरीयभृति कौस्तुभरत्नभाजि देवे परे दधतु लुब्धधियोऽनुबन्धम् / रूपं दिगम्बरमखण्डनृमुण्डचूडं भावत्कमेव तु बतेश मम स्पृहायै // ' अत्र वैष्णवेभ्यः खात्मनि विष्णोर्वा परमेश्वरे भेदमात्रं विवक्षितं न तु केनापि कस्यचिदौपम्यम् / स इति भेदः / तस्याधिक्यविपर्ययाभ्यां द्वैविध्याद्यतिरेकोऽपि द्विविधः / तदाश्रयत्वादस्य / चन्द्रापेक्षयेति / शशियौवनयोर्हि समानेऽपि गत्वरत्वे शशिनः पुनरागमनमपि संभवति न तु यौवनस्येति ततोऽस्य न्यूनगुणत्वम् / नन्वत्र विपर्ययमेवेति सूत्रितं भेदान्तरमयुक्तम् / उपमानादुपमेयस्य न्यूनगुणत्वे वास्तवत्वात्तत्वे चालंकारत्वानुपपत्तेः / यौवनस्य चात्रास्थिरत्वे प्रतिपाद्ये चन्द्रापेक्षयाधिकगुणत्वमेव विवक्षितम् / यदेतच्चन्द्रवद्यातं सन्न पुनरायातीति / असदेतत् / यतोऽत्र चन्द्रवद्गतं सद्यौवनं यदि पुनरप्यागच्छेत्तत्प्रियं प्रति चिरमीर्ष्यानुबन्धो युज्येत। कालान्तरेऽपि ह्यस्य तदवलोकनादिना सफलीकारः स्यात् / इदं पुनर्हतयौवनं यातं सत्पुन गच्छतीतीाद्यन्तरायपरिहारेण निरन्तरतयैव प्रियेण सह सफलयितव्यमिति धिगीर्ध्या त्यज प्रियं प्रति मन्यु कुरु प्रसादमित्यस्मिन्प्रियवयस्योपदेशे प्रियं प्रति कोपोपशमाय चन्द्रापेक्षया यौवनस्यापुनरागमनं न्यूनगुणत्वेनैव विवक्षितमिति वाक्यार्थविद एव प्रमाणम् / नचैतद्वास्तवमुपमेयस्य न्यूनगुणत्वम् / तस्यैव सातिशयल्वेन प्रतिपाद्यत्वात् / 1. 'कोणापगमाय' क.