________________ अलंकारसर्वस्वम् / 101 कचित्पुनर्निषेधसामर्थ्यादाक्षिप्तायाः प्राप्तेः संबन्धानुपपत्त्यापि भवति / यथा'उत्कोपे त्वयि किंचिदेव चलति द्राग्गूर्जरक्ष्माभृता मुक्ता भून परं भयान्मरुजुषां यावत्तदेणीदृशाम् / पन्यां हंसगतिर्मुखेन शशिनः कान्तिः कुचाभ्यामपि - क्षामाभ्यां सहसैव वन्यकरिणां गण्डस्थलीविभ्रमः // ' . अत्र मुक्तेति निषेधपदं तदन्यथानुपपत्त्या पादयोहँसगतिप्राप्तिराक्षिप्यते / सा च तयोरनुपपन्ना सादृश्यं गमयतीति असंभवद्वस्तुसंबन्धनिबन्धना निदर्शना। __मेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्यये वा व्यति ___ अधुना भेदप्राधान्येनालंकारकथनम् / भेदो वैलक्षण्यम् / स च द्विधा भवति / उपमानादुपमेयस्याधिकगुणत्वे विपर्यये वा भावात् / विपर्ययो न्यूनगुणत्वम् / क्रमेणोदाहरणम् प्रस्तुतत्वाद्वक्रमुपभेयम् / तद्धर्मस्य च लावण्यस्योपमाने शशिन्यसंभवः / एष इत्यसंभवद्वस्तुसंबन्धनिबन्धनो वा वाच्यः / आक्षिप्ताया इति / प्राप्तिपूर्वक त्वान्निषेधस्य / सेति प्राप्तिः / सादृश्यमिति / पादयोहँसगतितुल्याया गतेः प्रतीतेः / इयं च सामान्यस्यानुगामितया / यथा-अव्यात्स व इत्यादि / अत्र निसर्गवक्रताख्यधर्मस्यानुगामित्वम् / शुद्धसामान्यरूपत्वेन यथा-'हारेणामलकस्थूलमुक्तेनामुक्तकुन्तलः / फणीन्द्रबद्धजूटस्य श्रियमाप स धूर्जटेः // ' अत्रामुक्तबद्धयोः शुद्धसामान्यरूपत्वम् / बिम्बप्रतिबिम्बभावेन यथा-'उह सरसदंतमंडलकपोलपडिमागओ मअच्छीइ / अंते सिंदूरिअसंखवत्तकरणं वहइ चंदो // ' अत्र दन्तमण्डलसिन्दूरितत्वयोर्बिम्बप्रतिबिम्बभावः / भेदप्राधान्य 1. 'यत्कोपे' ख. 2. 'असंभवत्संभवनिदर्शना' क.